SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ .४०७ क्वाद्यर्थनिर्णयः । यत्"समानकरीकयोः"(पा०म०३।४।२७)इति सूत्रात् समानकर्तृकत्वं क्त्वावाच्यम् । अन्यथौदनं पक्त्वाऽहं भोक्ष्ये इत्यत्र प्रश्चाद् व्रजति" इति अन्येभ्यो भोक्तृभ्यः पूर्व भुक्त्वाऽपरेभ्यो गन्तृ. भ्यः पश्चाद् व्रजतीत्यर्थे साधनाऽन्तरक्रियापेक्षपौर्वकाल्यमादाय "विभाषाग्रह" (पा० सू०३।१।१४३) इति क्त्वः सम्भव इति तदाशयः॥ नव्यास्तु-'पूर्वकाल' इति कर्मधारयः । 'भूत' इति तु नोक्तम् । प. र्यायशब्दत्वात्, तेन रूपेण बोधनाननुभवाच्च । तथाच समानकतृकयोरर्थयोर्मध्ये पूर्वकालविशिष्टार्थवृत्तिधातोः क्त्वति सूत्रार्थः । तथाच पूर्वकालः क्त्वार्थो धात्वर्थप्रकार एव । अत एव समानकर्तृ. कत्वेन पूर्व भुङ पश्चाद् व्रजतीत्यत्र क्त्वाप्रत्ययमाशय स्वशब्देना. पातत्वान्नति परिहृतं भाष्ये । पूर्वशब्दस्य पूर्वकालोऽर्थो, न तु धा. तोस्तत्र वृत्तिरिति तदर्थो, न तूक्तार्थानामप्रयोग इति । अत एव "इ. ह कस्मान्न भवत्यास्यते भोक्तुम्" इत्यग्रिमशङ्कासङ्गतिः । अन्यथा फलार्थकतुमुना पूर्वकालत्वस्यासिक्रियायां द्योतनात् तदसङ्गतिः स्पष्टैव । पूर्वकालत्वस्य ततोऽप्रतीतौ तु कथं व आपादनं वासरूपन्यायेन लटा साधितमित्यन्यत् ॥ एवञ्च षष्ठयाः सम्बन्धवाचकत्व. वदमीषामपि सम्बन्धवाचकत्वं सुवचमित्याहुः। __ अत्रेदं चिन्त्यम् । ननु धातोस्तत्र वृत्तिरित्यर्थे, आस्यते भोक्तु. मित्यग्रिमशङ्कानुपपत्तेरुपष्टम्भकत्वेनोपन्यसनं शिथिलम् । यतः कै. यटमतेऽप्यास्यर्थे पूर्वकालसम्बन्धित्वस्य केनचिदनभिधाने "उक्तार्थानामप्रयोग” इति न्यायानवतारादाशङ्कोत्थान सम्भवात् । प्रत्यय. शब्दस्य कृत्प्रत्ययस्थले धात्वर्थविशेष्यताया नव्यानामपि सम्मत. स्वेन पूर्वकालः क्त्वाऽथो धात्वर्थप्रकार एवेति पूर्वग्रन्थविरोध. . श्च । न च द्योतकत्वाऽभ्युपगभादुक्तसङ्गतिः । षष्ठ्याः सम्बन्धवाच. कत्ववदमीषामपि सम्बन्धवाचकत्वमित्युत्तरग्रन्थविरोधात् । न च तदपि सुवचम् । समानकर्तृकत्वादीनां वाच्यतायाः सूत्रादला. भात् । तस्मात् कर्मप्रवचनीयत्वात् क्रियासम्बन्धविशेषकत्वमेव पत्वादीनामिति कैयटोक्तमेव सम्यगिति। मतान्तरं दुषयितुमुपन्यस्यति-*यत्विंति* ॥ *क्त्वावाच्यमिः
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy