SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ४०६ दर्पणसहिते वैयाकरणभूषणसारे न्यलभ्यत्वान्न सूत्रात्तेषां वाच्यत्वलाभ इति युक्तमव्ययकृतो भावे इति । ___एवञ्च प्रकृत्यर्थक्रिययोः(१) संसर्गे तात्पर्यग्राहकत्वरूपं घोतकत्वं क्त्वादीनाम् । अत एव, समानकत्तृकयोरिति सूत्रे स्वशब्देनोपात्तत्वान्नेति भाष्यप्रतीकमादाय पौर्वापर्यकाले घोत्ये क्त्वादिविधीयते, न तु विषय इति भाव इति कैयटः । इत्यत्र मत्प्रसूतिमनाराध्य ते प्रजा न भविष्यतीत्यर्थाद्विभिन्नकतृकादपि क्त्वादर्शनात् समानकत्र्तृकत्वस्यापि क्त्वान्तजन्यबोध. विषयता न सार्वत्रिकीति वाच्यम् । सुत्रस्वरस्वात् तादृशस्थले स्थित्यादिक्रियामध्याहृत्याऽनाराध्य स्थितस्यति बोधस्याऽभ्युपगमेन सार्वत्रिकत्वाऽक्षतेरिति ॥ *अन्यलभ्यत्वादिति ॥ आकाशानियम्यत्वाद्वाक्यशक्तिलभ्य. त्वाद्वेत्यर्थः ॥ *क्रिययोः संसर्ग इति* ॥ प्रकृत्यर्थविशेषत्वरूपस्य तस्यासम्भवेऽपि निरुक्तं यत्तदिह बोध्यमित्यर्थः॥ *अत एवेति* ॥ क्वः समानकर्तृकत्वादिद्योतकत्वादेवेत्यर्थः ॥ *भाष्यप्रतीकमि. ति* ॥ “इह कस्मान्न भवति पूर्व भुते पश्चाद् व्रजतीति? स्वशब्देनोपात्तत्वात" इति भाग्यम् । तत्र समानकर्तृकत्वेन पूर्वकालत्वेन च क्त्व आपादनम् ॥ *न तु विषय इति ॥ न तु प्रयोगघटयत्किञ्चि. त्पदबोध्य इत्यर्थः। उक्ताथानामप्रयोग इति न्यायादिति भावः ॥ त. था च "समानकर्तृकयोः" इति निर्धारेण षष्ठी । “पूर्वकाल" इति च षष्ठयर्थे बहुव्रीहिरिति कैयटाशयः । वाक्यार्थस्तु पूर्वमे. वोक्तः। नच पूर्वकालस्य पूर्वादिशब्दोनाऽभिधाने क्त्वोऽसाधुत्वे पूर्व भुक्त्वा पश्चाद् व्रजतीत्यत्र क्त्वाऽनुपपत्तिस्तदवस्थैवेति वाच्यम् । भाष्यकृतव तत्समाधानात् । तथाच भाष्यं-"नैतत् क्रियापौर्वकाल्यं, किं तर्हि कर्तृपौर्वकाल्येमतत् । पूर्वमसौ भुक्त्वाऽन्येभ्यो वाजतृभ्यः (१) प्रकृत्यर्थक्रिययोरिति । प्रकृत्यर्थश्च क्रिया चेति द्वन्द्वः। अथवा क्वाप्रत्ययस्य समाभिव्याहतप्रत्ययस्य च प्रकृतिग्राह्यतेति नासङ्गतिः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy