________________
पत्वाद्यर्थनिर्णयः।
४०५ समानाधिकरन्यश्च संसर्ग इति भोजनसमानाधिकरणा, तदुत्तः रकालिका वजनक्रियेति बोधः।।
अधीत्य तिष्ठति, मुख व्यादाय स्वपितीत्यादावध्ययनव्यादानयोरभावकाले अप्रयोगात् यदा यदाऽस्य स्थितिः स्वापश्च तदा तदाध्ययनं मुखव्यादानश्चेतिकालविशेषाऽवच्छिन्नव्याप्यत्वबोधाद् व्याप्यत्वं, सामानाधिकरण्यश्च संसर्गः। एवञ्चा
श तात्पर्यवशाहण्डमुहूर्तादिना ग्राह्यम् । अतो भोजनानान्तरं द. ण्डादिव्यवधानेऽपि न तादृशप्रयोगाऽनुपपत्तिरिति बोध्यम् ।
ननु पूर्वोत्तरभावस्थ सम्बन्धताभ्युपगमेऽध्ययनकाले 'अधीत्य तिष्ठति' इति प्रयोगाऽपत्तिः । स्थितावध्ययनानन्तर्याभावात् । एवं 'मुखं व्यादाय स्वपिति' इति न स्यात् । ओष्ठपुटविभागरूप. व्यादानकाल एव स्वापादिसत्त्वे तादृशप्रयोगस्यष्टत्वेन व्यादानस्य स्वापपूर्वकत्वाभावादत आह-अधीत्यतिष्ठीत्यादि* ॥ *काल. विशेषेति* ॥ विभिन्नकालिकयोः कालिकसम्बन्धघटितव्याप्यव्या. पकभावाभावेन तत्सम्बन्धावच्छिन्नत्वस्यापि संसर्गतोपगन्तव्या। - न केवलं तत्र व्याप्यत्वस्यैव संसर्गता, किन्तु सामानाधिकरण्य. स्यापीत्याह-*सामानाधिकरण्यश्चेति* ॥ नातो विभिन्नकत्तुकैककालिकाऽध्यनादिकमादायोक्तप्रयोगापत्तिः । इत्थञ्च "समानकर्तकयोः" (पा० सू० ३।४।२१ । ) इति सूत्रविहितत्त्वान्तस्थळे समा. नकर्तृकत्वरूपसामानाधिकरण्यसंसर्गस्य शाब्दबोधविषयता सार्वत्रिकी । जन्यत्वादीनां तु तात्पर्य्यवशात् क्वाचित्की सेति भावः। ___ अन्येतु-सामानाधिकरण्यस्यैव पूर्वोत्तरभावस्यापि स्क्वान्तजबो , धविषयता सार्वत्रिकी । मुखं व्यादायेत्यादौ "सुप्त्वा मुखं व्याद.. ते" इत्यत्रेव व्यादानोत्तरमपि स्वापानुवृत्तस्तथा पौर्वापर्य्यमादाय प्रयोगोपपत्तिः॥ एवश्व पूर्वोत्तरसम्बन्धव्यातिरिक्तसम्बन्धमानस्यैव काचित्कत्वमित्याहुः । न च।
अवजानासि मां यस्मादतस्तेन भविष्यति। . __ मत्प्रसूतिमनाराध्य प्रजेतिः त्वां शशाफ सा ।।