________________
४०४ दर्पणसहिते वैयाकरणभूषणसारे विशेषणविशेष्यभावमन्तरेणानुपपन्ना । अन्यथा, (१)भुङ्क्ते वज. तीत्यादावप्येकवाक्यतापत्तेः । तथाच तयोविशेषणविशेष्यभाव. निरूपकः संसर्गो, जन्यत्वं सामानाधिकरण्यं, पूर्वोत्तरभावो, व्याप्यत्वञ्चेत्यादिरनेकविधः । तथाच, भोक्तुं पचति भुत्वा तृप्त इत्यादौ भोजनजनिका पाकक्रिया, भोजनजन्या तृप्तिरिति बोधः । अत एव जलपानानन्तर्यस्य तृप्तौ सत्त्वेऽपि, पीत्वा तृप्त इति न प्रयोगः । सामानाधिकरण्यस्यापि संसर्गत्वेनार्थात् समानकर्तृकत्वमपि लब्धम् । भुक्त्वा व्रजतीत्यादौ पूर्वोत्तरभावः
धिकारीयत्वादिति भावः ॥ *अनुपपन्नेति* ॥ विशेष्यविशेषणत्व. योः संसर्गविषयतानिरूप्यत्वन सम्बन्धं विना विशिष्टबुद्धेरेवासम्भपात् सम्बन्धभानं तद्वाच्यता विनाऽप्युपपन्नमिति भावः ॥ *अन्य. येति ॥ विशेष्यविशषणभावमन्तरेणाऽप्येकवाक्यताभ्युपगमे इत्य. र्थः ॥ *सामानाधिकरण्यमिति* ॥ एकाश्रयवृत्तित्वमित्यर्थः ॥ पूर्वो. सरभावः-खोत्तरसमयोत्पत्तिकत्वम् । स्वपूर्वसमयवृत्तित्वं वा। वाप्यत्वम् अविनाभावित्वम् ।।
तुमुनाद्यन्ते शाब्दबोधदिशमाह- तथाचेति* ॥ *भोजनजनिकेति* ॥ जनकत्वस्यात्र संसर्गतेति स्फुटीकर्तुमियमुक्तिः। बोधा. कारस्तु, भोजनविशिष्टेत्येव जनकत्वस्यापदार्थतया अप्रकारत्वात् । क्रिययोर्जन्यजनकभावस्यापि सम्बन्धत्वे युक्तिमाह-* अत एवेति ।। जन्यत्वस्य संसर्गत्वाभ्युपगमादेवेत्यर्थः ॥ जलपानाऽऽनन्तर्यस्येत्य. नेन पूर्धापरीभावापन्नभोजनतृप्त्योःयाधिकरण्ये तत्र भुक्त्वा तृप्या तीतिप्रयोगवारणायाव्यवहितोत्तरत्वस्य तु दिनान्तरितपूर्वकालवृ. त्तिसमानाधिकरणभोजनादिक्रियामादाय क्त्वावारणाय । व्यवधान
(२) भुक्ते व्रजाति । एककर्तृका वर्तमानकालकी भुजिक्रिया, एककर्तृका वर्तमानकालिका वजनक्रियेति क्रियाद्वयमुख्यविशेष्य. ताको बोधोऽनुभवसिद्धो न तु तत्रैकमुख्यविशेष्यताशालित्वरूपमैकवाक्यत्वमननुभवसिद्धामति भावः।