Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
४१८ दर्पणसहिते वैयाकरणभूषणसारे त्वौचित्यात् । अव्यभिचाराच्च । आदेशानां भिन्नतया परस्परव्यभिचरित्वात् । लः कर्मणीत्याधनुशासनानुगुण्याञ्च । न ह्यादे. शेष्वर्थवत्ताबोधकमनुशासनमुपलभामहे इत्याहुः । तान् स्वसाधकयुक्तिभिर्निराचष्टे
व्यवस्थितेर्व्यवहतेस्तडेतुन्यायतस्तथा ॥ किचाख्यातेन शत्राद्यर्लडेव स्मार्यते यदि ॥ ६२॥ कथं कर्तुरवाच्यत्ववाच्यत्वे तद्विभावय ॥
व्यवस्थानुरोधात् प्रयोगान्र्तगता एव वाचका, न तु तैः स्मृता इत्यर्थः । तथाहि पचतीसादौ लकारमविदुषो बोधान्न तस्य वाचकत्वम् । न च तेषां तिक्षु शक्तिभ्रमाद् बोधः । तस्य भ्रमत्वे मानाभावात् । आदेशिनामपि तत्तवैयाकरणैः स्वे.
*अव्यभिचाराश्चेति ॥ लत्वावच्छिन्नशक्तिग्रहस्य कृतिबोधात पूर्व नियमेन सत्वात् तिबादीनां शक्यतावच्छेदकत्वे तु तदवच्छिन्न. शक्तिग्रहं विनाऽपि तसादिशक्तिग्रहवत् कृतिबोधेनाऽऽदेशवाचकता. वादिमते व्याभिचारो दुर्वार इति भावः। : ननु कार्य्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशानेयमापत्ति. रत आह-*लः कर्मणीतीति* ॥ *इत्याहुरिति* ॥ तथाचादेशाना. मेव वाचकत्वं सप्रमाणमिति तद्भावः ॥ *स्वसाधकेति* ॥ स्वम. तपरिपोषकेत्यर्थः॥ व्यवस्थितरित्यादिपञ्चम्यन्तत्रयस्य पूर्वकारिकास्थबोधकपदार्थेऽन्वयं प्रदर्शयन्नादौ व्यवस्थितरित्येतद्विवृणोति*व्यवस्थानुरोधादिति* ॥ प्रमाणेन पदार्थनिर्धारण व्यवस्था, तदन्यथानुपपत्तरित्यर्थः ॥ *शक्तिभ्रमादिति* ॥ लत्वावच्छिन्ननि. ष्ठवाचकत्वस्य तत्रारोपादित्यर्थः॥ *मानाभावादिति* ॥ विषयबा. धस्यैव भ्रमत्वे तन्त्रतया प्रकृते बोधकत्वशक्तस्तत्राबाधादिति भावः।
नन्वादेशानां बहुत्वमेव तत्र शक्तिस्वीकारे बाधकमत आह*आदेशिनामपीति । वैयाकरणः-शाकटायनप्रभृतिभिः-*व्यव.

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498