Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
४०८ दर्पणसहिते वैयाकरणभूषणसारे मयेति तृतीयाप्रमङ्गश्च । नचाख्यातेन कर्तुरभिधानान्न सेति वाच्यम् । भोजनक्रियाकर्तुरभिधानेऽपि पाकक्रियाकर्तुस्तदभाचात् । अनभिहिते भवतीति पर्युदासाश्रयणात्(१)।
अत एव प्रासादे आस्ते इत्यत्र प्रसादनक्रियाधिकरणस्याभिधा. नेऽप्यस्तिक्रियाधिकरणस्यानभिधानात् सप्तमीति भाष्ये स्पष्टम् । तस्मात् क्त्वाप्रत्ययस्य कर्तृवाचित्वमावश्यकमिति । तन्न । सूत्रातस्य वाच्यत्वालाभात् । समानकर्तृकयोः क्रिययोः पूर्वकाले
ति* ॥ “समानकर्तृकयोः पूर्वकाले" (पा० सू० ३।४। ८१।) इत्युभयोः पदयोबहुव्रीहित्वाविशेषेण पूर्वकालस्य वाच्यत्वमितरार्थस्य द्योत्यत्वमिति वैषम्ये बीजाभावादिति । वैषम्ये बाधकमा. ह-*अन्यथेति* ॥ तस्य काप्रत्ययावाच्यत्वे इत्यर्थः ॥ तृतीयाप्रसङ्गश्चेति ॥ क्वाप्रत्ययेन कर्तुरनभिधानादिति भावः ॥ ___ ननु "अनभिहित" इति सूत्रे नमः प्रसज्यप्रतिषेधाऽर्थकतया प्रकृते कर्तुराख्यातेनाभिधानान्न तृतीयापत्तिरित्याशय निराचष्टे-* न चेति* ॥ न चानुपपत्या तत्स्वीकारः। वक्ष्यामाणभाष्यविरोधा. त् । तथाचैकेनाभिधानेऽप्यन्येनानभिधानात् तृतीयापत्तिरित्यभिप्रा. येणाह-*पाकक्रियाकर्तुरित्यादि* ॥ *तदभावादिति* ॥ अभिहिः तभिन्नत्वादित्यर्थः ॥ *अनभिहित इति* ॥ न प्रसज्यप्रतिषेधो, वाक्यभेदादिदोषात् ॥ *अत एवेति* तत्सूत्रस्थनञः पर्युदासार्थक स्वादेवेत्यर्थः ॥ भाष्ये इत्यस्यानभिहितसूत्रस्थे इति शेषः ॥ *त. स्येति ॥ समानकर्तृकत्वस्येत्यर्थः । द्विवचनप्रकृतिबहुव्रीहिणा समानकर्तृकत्वस्य धात्वर्थविशेषणतैव प्रतीयते, न तु विधीयमान क इति भावः।
(१) पर्यदासाश्रयणादिति । प्रसज्यप्रतिषेधाश्रयणे त अभिहिते न भवतीत्यर्थात् तिङा कर्तृत्वशक्तेरभिधानान्न मयेति तृतीयापत्तिः। पर्युदासाश्रयणे तु अभिहितभिन्ने भवतीत्यर्थादनभिहितभुजिक्रि. यानिरूपितकर्तृत्वशक्तिमादाय तृतीयापतिर्दृढैवति भावः ।

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498