Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
दर्पणसहिते वैयाकरणभूषणसारे स्यां शक्तिरिति । तस्या एकत्वेन प्रतीतौ न्यायमाह-कपिञ्ज. लेति ॥ बहुत्वगणनायां त्रित्वस्यैव प्रथमोपस्थितत्वात् तद्रूपेणैव भानवद् एकत्वस्य सर्वतः प्रथमोपस्थितत्वमस्तीति भावः ।
भेदसहिता द्वित्वादिसंख्या, तदभावसहितमेकत्वमभेदैकत्वमिति व्युत्पत्या संख्यात्वेनैकत्वमेवोपसर्जनपदार्थे भासते । तथा “एकवच नमुत्सर्गतः करिष्यते” इति वचनाद्राजन् अस्-पुरुष-सु-इत्यलौकिक. विग्रहे एकवचनं प्रयुज्यते । यत्र तु प्रकरणादिना संख्याविशेषभानं तत्र बहुवचनमपि यथा चित्रगुरित्यादौ चित्रा-अस्-गो-अस्-इत्य. भिप्रेत्योत्तरग्रन्थमवतारयति-*तस्या इति* ॥ वृत्तिघटकपदार्थोपसजैनव्यक्तरित्यर्थः॥ __ *प्रतीताविति* ॥ संख्यात्वावच्छिन्नैकत्वप्रकारतानिरूपितवि. शेष्यत्वेन बोध इत्यर्थः। उपसर्जनपदार्थे संख्यात्वनैकत्वमेव प्रतीयते, म द्वित्वादीत्यत्र दृष्टान्तमाहेति यावत् ॥ *गणनायामिति ॥ बहुत्वविशिष्टानेकसंख्यानेकसंख्याने इत्यर्थः । "कपिञ्जलानालभेत" इति वाक्येन बहुत्वव्याप्यसंख्याविशिष्टकपिञ्जलालम्भनं विधीयते । तत्र त्रयाणां चतुरादीनां वालम्भनमिति संशये बहुत्वयाप्यत्वस्य त्रित्वादिषु सर्वेष्वविशिष्टत्वाद्यथाप्राप्तमेवालब्धव्यमिति पूर्वस्य चतुरादीनामालम्भनं, "मा हिंस्यात्” इति सामान्यशास्त्रविहितनिषेधस्यालभ्यतावद्व्यक्तीतरपरत्वरूपतात्पर्य्यसंकोचकल्पने गौरवाद् गणनायां प्रथमोपस्शितात्रत्वपरतयाऽपि वचनस्य चारितार्थ्याल्लाघ. वाच बहुत्वेन त्रित्विमेव बहुवचनाऽर्थ इति सिद्धान्तितम् । तन्या. यादत्रापि संख्यात्वेनैकत्वस्यैव वृत्त्यर्थत्वं, न तु द्वित्वादीनामप्रतीय. मानविशेषधर्मकैकत्वमभेदैकत्वमिति व्युत्पत्तेरिति भावः। “निजां त्रयाणाम्" ( पा० सू० ७ । ४ ७५) इत्यादिनिर्देशोऽस्मिन् व्याकरणे व्याप्तिन्यायस्यैवाश्रयणेन प्रकृते संख्यात्वेनैकत्वप्रतीतिर्हि सुपपादेत्यपि कचित् । . ननु जिज्ञासायां शाब्दमेव सामान्यधर्मप्रकारकशानदर्शनमपे. क्षितमिति न नियमः। आम्रफलदर्शनेनाऽपि तद्रसास्वादनेच्छायां तदपेक्षाविरहात् । नचैवं सामान्यधर्मप्रकारकज्ञानस्यैव हेतुत्वं वि

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498