SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे स्यां शक्तिरिति । तस्या एकत्वेन प्रतीतौ न्यायमाह-कपिञ्ज. लेति ॥ बहुत्वगणनायां त्रित्वस्यैव प्रथमोपस्थितत्वात् तद्रूपेणैव भानवद् एकत्वस्य सर्वतः प्रथमोपस्थितत्वमस्तीति भावः । भेदसहिता द्वित्वादिसंख्या, तदभावसहितमेकत्वमभेदैकत्वमिति व्युत्पत्या संख्यात्वेनैकत्वमेवोपसर्जनपदार्थे भासते । तथा “एकवच नमुत्सर्गतः करिष्यते” इति वचनाद्राजन् अस्-पुरुष-सु-इत्यलौकिक. विग्रहे एकवचनं प्रयुज्यते । यत्र तु प्रकरणादिना संख्याविशेषभानं तत्र बहुवचनमपि यथा चित्रगुरित्यादौ चित्रा-अस्-गो-अस्-इत्य. भिप्रेत्योत्तरग्रन्थमवतारयति-*तस्या इति* ॥ वृत्तिघटकपदार्थोपसजैनव्यक्तरित्यर्थः॥ __ *प्रतीताविति* ॥ संख्यात्वावच्छिन्नैकत्वप्रकारतानिरूपितवि. शेष्यत्वेन बोध इत्यर्थः। उपसर्जनपदार्थे संख्यात्वनैकत्वमेव प्रतीयते, म द्वित्वादीत्यत्र दृष्टान्तमाहेति यावत् ॥ *गणनायामिति ॥ बहुत्वविशिष्टानेकसंख्यानेकसंख्याने इत्यर्थः । "कपिञ्जलानालभेत" इति वाक्येन बहुत्वव्याप्यसंख्याविशिष्टकपिञ्जलालम्भनं विधीयते । तत्र त्रयाणां चतुरादीनां वालम्भनमिति संशये बहुत्वयाप्यत्वस्य त्रित्वादिषु सर्वेष्वविशिष्टत्वाद्यथाप्राप्तमेवालब्धव्यमिति पूर्वस्य चतुरादीनामालम्भनं, "मा हिंस्यात्” इति सामान्यशास्त्रविहितनिषेधस्यालभ्यतावद्व्यक्तीतरपरत्वरूपतात्पर्य्यसंकोचकल्पने गौरवाद् गणनायां प्रथमोपस्शितात्रत्वपरतयाऽपि वचनस्य चारितार्थ्याल्लाघ. वाच बहुत्वेन त्रित्विमेव बहुवचनाऽर्थ इति सिद्धान्तितम् । तन्या. यादत्रापि संख्यात्वेनैकत्वस्यैव वृत्त्यर्थत्वं, न तु द्वित्वादीनामप्रतीय. मानविशेषधर्मकैकत्वमभेदैकत्वमिति व्युत्पत्तेरिति भावः। “निजां त्रयाणाम्" ( पा० सू० ७ । ४ ७५) इत्यादिनिर्देशोऽस्मिन् व्याकरणे व्याप्तिन्यायस्यैवाश्रयणेन प्रकृते संख्यात्वेनैकत्वप्रतीतिर्हि सुपपादेत्यपि कचित् । . ननु जिज्ञासायां शाब्दमेव सामान्यधर्मप्रकारकशानदर्शनमपे. क्षितमिति न नियमः। आम्रफलदर्शनेनाऽपि तद्रसास्वादनेच्छायां तदपेक्षाविरहात् । नचैवं सामान्यधर्मप्रकारकज्ञानस्यैव हेतुत्वं वि
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy