________________
अभेदेकत्वसङ्ख्या निर्णयः ।
३९७
वस्तुतस्तु जिज्ञासैव नानुभवसिद्धा । तथात्वे वा ज्ञानेच्छयोः समानप्रकारकत्वेनैव हेतुहेतुमद्भावात्तद्रूपेणैव वाच्यता स्थादिति ध्येयम् ॥ ५६ ॥
इति वैयाकरणभूषणसारे अभेदैकत्वसङ्ख्यानिरूपणम् ॥ ११ ॥
लीयतेति वाच्यम् । आम्रदर्शनस्योद्बोधकतया तद्रसस्मरणेन तदुपपत्तेः ः । प्रकृते तस्या अशक्यत्वेऽपि तद्व्यभिचारितद्रव्यत्वेनाऽनुमानिकतद्बोधसम्भवात् तादृशजिज्ञासाया अननुभवाश्च नोक्तयुक्तिर्वृत्ते मैकत्वसंख्यार्थत्वसाधिकेत्यभिप्रेत्याह -* वस्तुत इति ॥ *अनुभवसिद्धेति* ॥ अस्य, येन तदनुरोधेन सामान्यधर्मप्रकारकज्ञानस्यावश्यकता स्थादिति शेषः । अभेदैकत्वसंख्याया वृतौ भानमिति मूलं तु प्राचीनग्रन्थानुवाद एवेति भावः ।
अनुभवसिद्धत्वस्य शब्दनिर्णयत्वं मत्वाह - * तथात्वे वेति ॥ वाशब्दोऽनास्थायाम् । अनुभवसिद्धत्वे चेत्यर्थः ॥ *समानप्रकारक त्वेनैवेति* ॥ एवकारणं विभिन्नप्रकारकत्वव्यवच्छेदः । तद्धर्मप्रका रकेच्छां प्रति तद्धर्म्मप्रकारकत्वज्ञानस्य हेतुतायाः सुखादीच्छास्थले क्लृप्तत्वात् । प्रकृते विशेषधर्मप्रकारकजिज्ञासायाः सविषयविषकत्वेन ज्ञानप्रकारीभूतविशेषधर्मप्रकारकत्वस्यावश्यकत्वेन तत्पदार्थविशेषधर्मप्रकारकज्ञान कार्य्यतावच्छेदकाक्रान्तत्वादिति भावः ॥
*तत्तद्रूपेणेति* ॥ एकत्वत्वादिरूपेणैवेत्यर्थः । एवकारेण संख्यासामान्यधर्मव्यवच्छेदः । इष्टापत्तिस्तु न । तथा सति शब्दादेव विशेषधर्मावगतौ जिज्ञासाया असम्भवादिति भावः ।
अत्र वदन्ति । तद्धर्मप्रकारकज्ञानस्य कार्य्यतावच्छेदककोटौ स्वातन्त्र्येण तद्धर्मप्रकारकत्वं सामान्यधर्मप्रकारकज्ञानस्य विशेषधर्मप्रकारकाजज्ञासाजनकत्वानुरोधान्निवेशनीयम् । अन्यथा सामा• न्यधर्मप्रकारकज्ञानस्योक्तजिज्ञासां प्रति हेतुत्वं विलीयेत ।
न च तत्र मानाभावः । "जायते च कार्ये कारणे वा ज्ञाते किमस्य कार्य कारणं वा" । इति दीधितिकृद्वाक्यस्यैव मानत्वात् । प्रकृते विशेषधर्मस्य पारतन्त्र्येणैवेच्छांशे प्रकारत्वात्तद्धर्मप्रकारक