________________
३९८ दर्पणसहिते वैयाकरणभूषणसारे
॥ अथ सङ्ख्याविवक्षानिर्णयः ।। सङ्ख्याप्रसङ्गादुद्देश्यविधेययोः सङ्ख्याविवक्षाविवक्षे निरूपयतिलक्ष्यानुरोधात् सङ्ख्यायास्तन्त्राऽतन्त्रे मते यतः ॥ पश्चैकत्वादिहेतूनामाश्रयणमनाकरम् ॥ ५७ ॥
(१)"ग्रहं समाष्टिं" इसत्रोदेश्यग्रहगतमेकत्वमविवक्षितमितिवन्नास्माकमुद्देश्यविशेषणाविवक्षानियमः । धातोरिसेकत्वस्य वि. वक्षितत्वात् ।
शानं विनापि सामान्यधर्मप्रकारकज्ञानात् तादृशजिज्ञासाया: सूप. पादत्वात् । सामान्यधर्मप्रकारकशानं तु विशेषर्धमप्रकारत्वावच्छिन्न. विशेष्यकेच्छात्वमिति न गुणत्वसामान्यज्ञानात् सुखादीच्छाप्रसक्ति. रधिकमन्यत्रानुसन्धेयम् । तथाचात्र जिज्ञासायाः सर्वसिद्धत्वे तदु. पपत्तयेऽभेदैकत्वे वृत्तेर्वृत्तिरावश्यिका । एवञ्च, "अभेदैकत्वसंख्यायावृत्तौ” इति मूलस्य सङ्गतिः। एतेन भेदस्य तत्सहचरितद्वित्वादेरे। कत्वस्य च या प्रतीतिस्तदभाव इत्यर्थपरतया व्याख्यानं परास्त: मिति ॥ ५७॥
इति भूषणसारदर्पणे अभेदैकत्वसंख्यानिरूपणम् ॥ ११ ॥
- सङ्ख्याविवक्षाऽविवक्षानिरूपणे सङ्गतिं दर्शयति ॥ *प्रसङ्गादिति*। अभेदैकत्वसङ्ख्यानिरूपणे कपिञ्जलानालभेतेत्यत्र विधेय. विशेषणतया त्रित्वसङ्खयाविवक्षायाः स्मृतत्वाद् उपेक्षानहत्वाचे त्यर्थः॥ ॥*अविवक्षितमितीति*॥ तद्विवक्षणे यज्ञीययावत्पात्राणां मार्जनाऽलाभ इति भावः ॥*धातोरितीति*॥ प्रत्ययविधौ "धातोः" (पा० स० ३ । १ । ८१) इतिसूत्रस्य धातुपदार्थविशेषणीभूतैकत्वादे.
(१) ग्रहं समार्टीति । 'ग्रहं समार्टि' इत्यादौ ग्रहान् वाक्यान्तर विहितानुद्दिश्य संमार्गोविधीयते । तत्रोद्देश्यगतं विशेषणमविवक्षि. तमिति सर्वग्रहसंमार्गसिद्धिरिति मीमांसकसिद्धान्तः। अत्र ग्रहं यशी. यपात्रम् ।