________________
३९९
... सङ्ख्याविषक्षानिर्णयः। उत्पद्येत समस्तेभ्यो धातुभ्यः प्रत्ययो यदि।
तदा सर्वैर्विशिष्येत (१)द्वन्द्वोत्पन्नसुबर्थवत् ॥ - इति शब्दान्तराधिकरणे भट्टपादैरभिधानाच । "आर्द्धधातु. कस्येड् वलादेः" (पा० सू० ७।२।३५) इत्यत्रानुवाद्याधातुकविशेषणस्य वलादित्वस्य विवक्षितत्वाच्च । . एवं "पशुना यजेत" इतिवद् विधेयविशेषणं विवक्षितमिः त्यपि नियमो न । “रदाभ्यां निष्ठातो नः पूर्वस्य च दः" (पा० सू० ८ । २ । ४२ ) इत्यत्र नकारद्वयविधानानापत्तेः ।
रेतच्छास्त्रे अधिवक्षणादित्यर्थः । अस्मच्छास्त्रे तु उद्देश्यगतविशेषण. स्याविवक्षा मीमांसकानामपि सम्मतेत्याह *उत्पद्यतेति||* ॥*विशेष्यतेति ॥ तदा स प्रत्ययार्थः सर्वैर्धात्वर्थैर्विशिष्यतेत्यर्थः ।
ननु नेयं युक्तिर्विवक्षासाधिका, तादृशसमुदायस्य क्रियावचनत्वाभावेन ततः प्रत्ययोत्पत्तेगर्गनकुसुमायमानत्वेन स्वत एव विव. क्षासस्वादत आह *आर्द्धधातुकस्यड्वलादेरितीति*॥*विवक्षि. तत्वाच्चेति । अन्यथा तदुपादानवैयापत्तरिति भावः। ॥ एव. मिति ॥ अनुवाद्यविशेषणमविवक्षितमेव । नियमाऽनाश्रयणवदित्यर्थः। 'पशुनायजेत' इत्यत्र यज्यर्थयागस्य करणाकालायां साधनत्वेन प. शुर्विधीयते एवञ्च पशुशब्दस्य विधेयसमर्पकतया तदुपस्थितानां केषाश्चिद्, ग्रहणे केषाञ्चित् परित्यागे मानाभावेन पशुत्वपुंस्त्वा. दिवदेकत्वमपि यागसाधनत्वेन विवक्षितम् । तेन नानेकपशुकरण. तया तदष्टसिद्धिः । एवमन्यत्रापि विधेयविशेषणं विवक्षितम् । अत्र विवक्षाकारणविरहादिति मीमांसकपरिशीलिता सरणिस्तदनुसरणनियमो नाऽस्माकमित्यर्थः। - एतच्छास्त्रे तदाश्रयणेऽनिष्टं प्रदर्शयति । ॥रदाभ्यामिति* ॥*विधानानापत्तेरिति । 'न' इत्येकवचनोपस्थितैकत्वस्यापि वि.
(१) द्वन्द्वोत्पन्नसुबर्थवदिति। द्वन्द्वसमासादुत्पन्नसुबर्थसंख्यादिना यथा सर्वे द्वन्द्वघटकपदार्था विशिष्यन्ते एवं धातुसमुदायाद्यदि प्र.