________________
दर्पणसहिते वैयाकरणभूषणसारे
.
तथाच, भिन्न इत्यत्र नकारद्वयलाभों न स्यात् । "आद् गुण" ( पा० सू० ६ । १८७ ) इत्यादावेकत्वविवक्षयैवोपपतौ, "पकः पूर्वपरयोः " ( पा० सू० ६ । १८४ ) इत्येकग्रहण वैय र्थ्यापत्तेश्चेति (१) भावः । शब्दार्थस्तु सङ्ख्याया लक्ष्याऽनुरोधातन्त्राऽतन्त्रे(२) यतो मते अतः पश्वैकत्वाधिकरणोक्त हेतूनामाश्रयणं नास्मत्सिद्धान्तसिद्धमिति । आदिना ग्रहैकत्व संग्रहः ॥५७॥
४००
ननु विधेयविशेषणविवक्षा आवश्यकी । अन्यथा 'सुद्ध्युपास्य' इत्यादावनन्तयकाराद्यापत्तेः । 'भिन्न' इसत्र नकारद्वय
धेयविशेषणतया तद्विवक्षायां नकारद्वयविधानं न स्यादित्यर्थः । ननु मास्तु न द्वयविधानमत आहे ॥ तथाचेति॥ इदञ्चैकवाक्यतया विधानमभिप्रेत्य, वाक्यभेदेन विधानपक्षे त्वाह *आद् गुणः इत्यादाविति*॥ ॥*एकत्वविवक्षयैवेति* ॥ विधेयगुणगतैकत्वविवक्षयैवेत्यर्थः । तथाचैकग्रहणमेवोक्तार्थे ज्ञापकमिति भावः ।
ननु पश्वेकत्वादिविवक्षाहेतूनां जैमिनिसम्मतत्वान्न तदाश्रयणस्यानाकरत्वमित्याशङ्कामपाकरिष्यन् योजनाप्रदर्शनमिषेणाऽऽ कर पदार्थ व्याचष्टे *शब्दार्थस्त्वित्यादि* ॥ ॥ *पश्वेकत्वाऽधिकरणोतहेतूनामिति* 'पशुना यजेत' इत्यत्र विधेयगतैकत्वस्याविवक्षणे पश्वन्तरालम्भे प्रयोगप्रशुभावबाधेन यागवैगुण्यापत्तिः । गुणानुरोधेन यागाऽऽवृत्तौ प्रधानत्वभङ्गापत्तिर्यावत्पशुकरण कयागासम्भवश्चेत्येवमादयो दोषा हेतवस्तेषामित्यर्थः ॥ *सिद्धान्तसिद्धमिति ॥ सि द्धान्तार्थप्रतिपादकमहाभाष्यादिसिद्धमित्यर्थः ॥ ५७ ॥
त्यय उत्पद्येत तदा तावन्तो धात्वर्थाः प्रत्ययार्थेन सम्बन्ध्येरन्नि त्यर्थः ।
(१) वैर्ययपत्तेरिति । यदि विधेयविशेषणं नियमेन विवक्षितं स्यात् तदा पूर्वपरयोः स्थानिनोरेकस्यैव गुणाद्यादेशस्य सिद्ध्यां एकग्रहणवैयर्थ्य स्यष्टम् ।
(२) तन्त्रातन्त्रे = विवक्षाविवक्षे ।