________________
*૦૨
सङ्ख्याविवक्षानिर्णयः 1.
वदन्येषामप्यापत्तेः । “एकः पूर्वपरयोः" इत्यत्रैकग्रहणञ्च स्थानिभेदादा देशमेदवारणाये साभिप्रेत्याह
विधेये भेदकं तन्त्रमन्यतो नियमो न हि ॥
ग्रदैकत्वादिहेतूनामाश्रयणमनाकरम् ॥ ५८ ॥ भेदकं विशेषणम् ॥ तन्त्रं विवक्षितम् । विधेयविशेषणं विवक्षितमित्यस्तु तथाऽप्यन्यतः - अनुवाद्यस्य नियमो न हि । क्वचित् तन्त्रं क्वचिन्नेत्यर्थः ।
ग्रहैकत्वादौ यो हेतुर्वाक्य भेदादिस्तस्यात्राश्रयणमनाकरम् | एकत्वविशिष्टं धातुं वलादित्वविशिष्टमार्द्धधातुकश्वोद्दिश्य प्रत्यये डागमादेर्विधिसम्भवादिति भावः (१) ॥ ५८ ॥
॥*आदेशभेदवारणायेति ॥ वस्तुतस्तु नैकग्रहणं विधेयगतविशेषणाविवक्षायां तन्त्रम् " अनयोः पूलयोः कटं कुरु" इत्यादाविव “आद् गुण” इत्यादावपि "पूर्वपरयोः" इति द्वन्द्वनिर्देशेनैकवाक्यतयैवोभयोः स्थाने एकविधानसम्भवात् स्थानिभेदान्नानेको गुण इत्येकग्रहणस्य भाष्ये प्रत्याख्यानादिति रहस्यम् । ॥*वाक्यभेदादिरिति।। " प्राजापत्या नव ग्रहा" इति वाक्यविहितग्रहो देशेन सम्मार्गो विधीयते, "ग्रहं सम्मार्ष्टि" इत्यनेन । तत्रानुवाद्यग्र है कत्वविवक्षायामुत्पत्तिवाक्यगतसङ्ख्याया विरोधाद् वाक्यस्य यो भेदो विभिन्न विशेष्यकबोधजनकत्वं तदापत्त्यादीत्यर्थः ॥ अन्येतु - "ग्रहं समार्ष्टि " न चैकमित्याकारकवाक्यभेदापत्तिमाहुः ।
आदिपदेनोत्पत्तिवाक्यगतनवत्वसङ्ख्यया ग्रहपदार्थस्य परिच्छि न्नत्वादुत्पत्तिविच्छेदकाङ्क्षाभावस्य ग्रहमिति द्वितीयया संस्कार्य्य. त्वलक्षणप्राधान्यबोधनात् " प्रतिप्रधानं गुणाऽऽवृत्तिः" इति न्याया
(१) नन्वेकत्वविवक्षायामकस्मादेव धातोः प्रत्ययः स्यान्न तु धात्वन्तरादिति चेन्न सर्वेषां प्रत्येकमेकत्वाद्विनिगमनाविरहेण व्यक्त्यन्तरेभ्योऽपि प्रत्ययोत्पत्तिसिद्धिसम्भव इत्याशयः ।
५१