________________
४०२ दर्पणसहिते वैयाकरणभूषणसारे नन्वेवं भिन्न इत्यत्र नकारद्वयलाभो न स्यादित्यत आह
रदाभ्यां वाक्यभेदेन नकारद्वयलाभतः ॥ क्षतिनैवास्ति तन्त्रत्वे विधेये भेदकस्य तु ॥५९॥
चकारसूचितं-'निष्ठातस्य नः, पूर्वस्य दकारस्य च न" इति वाक्यभेदमादाय नकारद्वयलाभ इत्यर्थः ॥ ५९॥ इति वैयाकरणभूषणसारे सङ्घयाविवक्षानिर्णयः ॥ १२ ॥
-**:
॥अथ क्त्वाद्यर्थनिर्णयः॥ (१)क्त्वाप्रत्ययादेरर्थ निरूपयति ।
विनिगमनाविरहात् सम्भावनैकमिरा सफलकसंमार्गस्य सर्वग्रहैरणे. क्षणाद्विधेयपश्वादिविशेषणवत् क्रियाङ्गत्वाभावेन तवैकल्यप्रयुक्तक्रि यविकल्याप्रसक्तेश्च तद्विवक्षाविरहबीजस्य च संग्रहः । अनाकरमिति पूर्ववत् । इडागमादेरित्यादिना, "उदीचामातः स्थाने यकपूर्वाया" ( पा० सु०७ । ३ । ४६) इति विहितेत्त्वसंग्रहः । तत्राऽऽकारस्था. निकाऽतमुद्दिश्यत्वविधानात् । अत एवेनिषेधविधायक "एकाच्" ( पा० सू० ७।२।१०) इति सूत्रेऽच इत्येकत्वविवक्षादरेणाने. कान्वोपदेशव्यावृत्तिग्रन्थकृद्भिाख्याता ।
वस्तुतस्तु ग्रहैकत्वदृष्टान्तेनात्राप्यनुवादविशेषणानां क्वचिदवि. वक्षाऽस्तु, तदितरविशेषणानां विवक्षायां तु न किञ्चिद् बाधकम् । मीमांसायामनुवाद्यांशे जातिलिङ्गसङ्ख्याऽतिरिक्तविशेषणास्यादर्शनात् । एषाश्चोत्पतिवाक्यादेवावगमेनाऽऽनुषङ्गिकत्वादविवक्षा युज्य. ते । प्रकृते तु न तथेति बोध्यम् ॥ ५८॥ ५९॥
' इति भूषणसारदर्पणे सङ्ख्याविवक्षादिनिर्णयः १२ ।।
अवसरसङ्गतिं कृत्वाद्यर्थनिरूपणे दर्शयति *क्त्वाप्रत्यया(१) यद्यपि कारिकायां तुमादय इत्युक्त्यतुमादेरिति कथनं य.