________________
अभेदेकत्वसङ्ग्यानिर्णयः। अगृहीतविशेषेण यथा रूपेण रूपवान् । प्रख्यायते न शुक्लादिर्भेदापोहस्तु गम्यते । इति ।। अस्या वृत्तौ=समासादौ भानं न्यायसिद्धमिति शेषः । इति मतस्थितिर्वैयाकरणानाम् । .
अयं भावः । राजपुरुष इत्यादौ, राज्ञो, राज्ञोः, राज्ञां वाs. यं पुरुष इति जिज्ञासो जायते । विशेषजिज्ञासा च सामान्यज्ञा. नपूर्विकेति सामान्यरूपेण तत्प्रतीतिः शब्दादादावावश्यकी। अतस्त
प्रतीतिगोचरः सङ्घयापदार्थोऽभेदैकत्वपदव्यपदेश्यो भवतीतिसमुदि. तार्थः तत्र दृष्टान्तान्तरमाह । *अगृहीतविशेषेणेति ॥ शुक्लादिनैव यथा घटादो रूपवानिति प्रतीयते । शुक्लादोभेदरूपोऽपोहः शुक्लत्वादिरतव्यावृत्तिरूपः स तु न प्रतीयते । तद्वद्राजपुरुष इत्यादौ राजादिपदार्थः सङ्खथावानिति प्रतियते, न तत्र सङ्ख्यांग्शे एकत्ववादिनां मत इत्यर्थः। __तादृशसङ्ख्याभानस्य परानभ्युपेतत्वात् कथमियं स्थितिरित्यस्तरा शेषपूरणेन व्याचष्टे *वैयाकरणानाति* ॥ ननु तादृशसङ्ख्याया वृत्तौभाने किं प्रमाणमतआह *अयं भाव इति* *समान्यज्ञानपू. र्वकेति* ॥ तद्धेतुकेत्यर्थः। *आवश्यकीति* ॥ तां विनोक्तजिशासाया अभावाहिति भावः । सा च संख्यापूर्वोत्तरपदार्थयोः सम्बन्धवद् वृत्तिशक्यैव । अजहत्स्वार्थावृत्तिपक्षे पूर्वपदस्य संख्याविशेषवाचकत्वे गमकाभावे, तेन, 'द्विपुत्रो', 'मौद्किो ', 'मासजातः' 'ताव. कीना' 'भवद्रािमवसर' इत्यादौ वृत्तावऽभेदैकत्वसंख्याया अभाने. ऽपि न क्षतिः । . आये संख्याविशेषस्यैव पूर्वपदार्थत्वात् । द्वितीये, एकमुद्गस्य क्रयकरणायोग्यत्वाद् बहुत्वाऽवगातः। तृतीये विशिष्टकालावगमाय मासपदयोग्यसंख्याध्यवसायः । चतुर्थे तवकाद्यादेकत्वागतिः । पञ्चमे प्रकरणाद् द्वित्वावगतिः। एवं, कारकमध्य इत्यादावप्यूह्यम् । एकस्य मध्यासम्भवात् । सति प्रकरणे राजपुरुष इत्यादावपि संख्याविशेषप्रकरेणैव भानम् । तदा तत्रापि न तस्य वृत्त्यर्थत्वमिति भेदो