SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३९४ दर्पणसहिते वैयाकरणभूषणसारे यथौषधिरसाः सर्वे मधुन्याहितशक्तयः । अविभागेन वर्तन्ते सङ्ख्यां तां तादृशीं विदुः ॥ इति ॥ . परित्यक्तविशेष वा सङ्ख्यासामान्यं तत्(१)। उक्तश्च भेदानां वा परिसागात् सङ्ख्यात्मा स तथाविधः । व्यापाराजातिभागस्य भेदापोहेन वर्तते ॥ अविरोधेनेत्यर्थः(२) । ताम्=अभेदैकत्वसङ्खयां, तादृशीं मधुनिष्ठर. सस्थितितुल्यामित्यर्थः। __ नन्वेकत्वद्वित्वादीनामेकत्र सत्त्वमनुपपन्नम् । न हि द्वावेकत्वेन व्यवह्रियेते; नाऽप्येको द्वाविति । “न हि द्विपुत्र" इति भाष्यात् ।। किञ्च दृष्टान्तोऽपि न समञ्जसः । तत्तद्रसवदारब्धेऽवयविनि माक्षिके. ऽवयवसजातीयरसान्तरस्यैवोत्पादाभ्युपगमादत आह-*परित्यक्ते. ति* ॥ वाशब्दः पक्षान्तरे । अगृहीतविशेषधर्मकं संख्यामात्रमित्यर्थः। पूर्वकल्पे उक्ताऽस्वरसाभिसन्धिकं वाक्यपदीयं तत्पक्षेऽपि प्रप्रमाणत्वेनोपन्यस्यति-*भेदानामिति ॥ भेदानाम्-एकत्वत्वद्वित्व. त्वादिविशेषधर्माणां । परित्यागा=अग्रहात् । इदञ्च व्यापारप. दार्थे अभेदेनाऽन्वयि ॥ संख्यात्मा-संख्यास्वरूपः ॥ सः-एकत्वा. दिः । तथाविधः अभेदैकत्वव्यपदेश्य इत्यर्थः ॥ तदेव विशदयति *जातिभागस्यति ॥ एकत्वत्वादेरित्यर्थः । *भेदापोहेनति* ॥ भेदस्य विशेषणस्य योऽपोहोऽग्रहस्तेनेत्य। र्थः ॥ यद्वा भेदापोहेनेत्यस्य व्यापारादित्यनेनाऽन्वयः। प्रकृत्यादि. त्वात् तृतीया । तथाचैकत्वत्वादेर्जातिविशेषस्य भेदाग्रहरूपो यो व्यापारो विशेषणाऽऽत्मा ततो वर्तत इत्यर्थः ॥ “भेदाऽपोहो न वर्त्तः ते" इति वा पाठे तु भेदरूपो योऽपोहोऽतव्यावृत्तं स न वर्त्ततेन भासत इत्यर्थोऽवसेयः । पद्यान्तरावलोकनेनैतत्पाठस्यैव हरिसम्म तत्वमध्यवसीयते । द्वित्वत्वाद्यग्रहकालिकसङ्ख्यापदार्थत्वप्रकारक . (१) अस्मिन्पक्षे संख्यात्वेन संख्यासामान्यस्यैव भानं न विशेष त्वनेति पूर्वस्माद्विशेषः। (२) संख्यात्वेन रूपेण सर्वसंख्याभानमित्यर्थः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy