________________
.. अभेदैकत्वसङ्ख्यानिर्णयः ।
३९३ विशिष्टशक्त्यैवार्थोपस्थितिरित्याह-वस्तुत इति ॥ ५५ ॥ इति वैयाकरणभूषणसारे देवताप्रत्ययार्थनिर्णयः ॥ १० ॥ .. ॥ अथाऽभेदैकत्वसंख्यानिर्णयः ॥
वृत्तिप्रसङ्गात् तत्राभेदैकत्वसङ्ख्या प्रतीयत इति सिद्धान्तं दृष्टान्तेनोपपादयति
अभेदैकत्वसङ्ख्याया वृत्तौ भानमिति स्थितिः ॥ कपिञ्जलालम्भवाक्ये त्रित्वं न्यायाद् यथोच्यते ॥५६॥
सङ्ख्याविशेषाणामविभागेन सत्वम् अभेदैकत्वसङ्ख्या । उक्तश्च वाक्यपदीये
* विशिष्टशक्त्यैवेति * ॥ विशिष्टार्थस्येति शेषः॥ वृत्तौ पक्षव्या. भ्युपगमेन जहत्स्वार्थपक्षे तघटकपदाऽर्थनिरूपणस्यानुपयोगेऽप्यजहत्स्वार्थपक्षे विशिष्टशक्तिग्रहस्य प्रत्येकपदशक्त्यधीनतया तदर्थस्यापि निरूपणमुचितमेव । एतत्सूचनायैव मुलेऽतीवेत्युपात्तमिति रहस्यम् ॥ ५५॥
इति भूषणसारदर्पणे देवताप्रत्ययार्थनिरूपणम् ॥ १० ॥ . : . ननु प्रक्रान्ते प्रातिपदिकघटकप्रत्ययार्थनिरूपणेाभेदैकत्वसङ्ख्या. निरूपणमसङ्गमत आह-* वृत्तिप्रसङ्गादिति* ॥ तथाच वृत्तिनिरूपणे क्रियमाणे स्मृतिपथप्राप्ततद्धर्मोपेक्षाऽनुचितेति प्रसङ्गसङ्गतिसरंधा. नोक्तदोष इति भावः । यद्यपि वक्ष्यमाणक्त्वाद्यन्तेऽपि कृवृत्तिस. स्वात्तदनन्तरमेव सङ्कयानिरूपयितुमुचिता, तथापि तत्प्रकृत्यर्थे स. वयाया अभानादाकाङ्काविच्छेदः स्यादित्यत्रैव तन्निरूपितमिति बो. ध्यम् । अभेदैकत्वसङ्ख्यापदार्थः मतभेदेन द्विधा निर्वक्ति *सङ्ख्याविशेषाणामिति ॥ एकत्वत्वाद्यवच्छिन्नानामित्यर्थः ॥ अभेदेन-अ. विरोधनेति यावत् । उक्ताऽर्थ हरिवाक्यं प्रमाणयति-*उक्तश्चेति* ॥ आहितशक्तयः आहिता समर्पिता तत्तदोषाविभेदानबन्धनविरोधरूपा शक्तियरित्यर्थः । त्यक्तविरोधो इति यावत । अत एव, अविभागेन
५०