SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे वृत्तिमात्रेऽतिरिक्तशक्तेः, “समर्थः पदविधिः" (पा० ० २ । १ । १ ) इति ( १ ) मूत्राल्लाभादुक्तो विचारः शास्त्रान्तरीयैः सह तद्रीत्यैवोक्तः । आरोपित प्रकृतिप्रत्ययार्थमादाय वा । वस्तुतो ३९२ लिकत्वमपि प्रधानप्रत्ययार्थे विशेषणम् । तस्याऽपि प्रत्ययशक्यत्वात् । एवञ्च, गर्गजीवनसमानकालिको गर्गगोत्राऽपत्यनिरूपितजन्यतावानयं पुमानिति बोधः । "तेन रक्तम्" ( पा० सु० ४ । २ । १ ) इति विहितप्रत्ययस्य त त्संबन्धाधीनतदीयरूपारोपविषयोऽर्थः । तादृशारोपविषयत्वमेव ते. न रक्तत्वम् । 'शङ्खः पीत' इत्यारोपमादाय शङ्खादेरारोप्यपीतिमाश्रयहरितालादिना रक्तत्ववारणायाधीनान्तमारोपविशेषणम् । माञ्जि ठपटादेश्चक्षुरादिना रक्तत्ववारणाय तदीयत्वं रूपविशेषणम् । अत्र च रागकरणस्य मञ्जिष्ठादेः प्रकृत्यर्थस्य तद्धितार्थस्यैकदेशसम्बन्धे प्रतियोगितया रूपे चाधेयतयान्वयः । तथाच मञ्जिष्ठासंबन्धाधीनो यो मञ्जिष्ठानिष्ठरूपारोपस्तद्विषयताश्रय इति माञ्जिष्ठ इत्यतो बोधः । "शूल्यम्,” “उख्यम्" इत्यादौ, “संस्कृतं भक्षाः " ( पा० सू० ४ । २ । १९ ) इति सूत्रविहिततद्धितार्थैकदेशे पाकादिसंस्कारे शूलोखादेः प्रकृत्यर्थस्याऽधिकरणत्वेनाऽन्वयः ॥ अनयैव रीत्या तद्धितान्तरादू बोध ऊहनीयः । तद्धितानां कचित्प्रकृत्यऽर्थे स्वार्थैकदेशस्य, क्वचित् स्वार्थस्यैवान्वयबोधकत्वादिति जहत्स्वार्थवृत्तिपक्षमवलम्ब्य मूलमवतारयति *वृत्तिमात्र इति ॥ तथाच तत्पक्षे पदानामानर्थक्यात् तदर्थ. निरूपणे सिद्धान्तप्रच्युतिरिति भावः ॥ तद्रोत्यैवेति* ॥ शास्त्रान्तरीयरीत्यैवेत्यर्थः । ननु वैयाकरणमते जहत्स्वार्थवृत्त्याश्रयणे, "न पूजनातु " ( पा०सु० ५ । ४ । ६९ ) " तेन रक्तं रागात् " ( पा० सू० ४ । २ । १ ) इत्यादिसूत्राणां का गतिरत आह आरोपितेति * ॥ (१) सूत्राल्लाभादिति । तत्सम्बन्ध्यपत्यमित्यर्थे प्रत्यय इति त स्थापत्यमित्यादेरर्थात् 'वस्त्रमुपगोरपत्यं चैत्रस्य' इत्थंविवक्षायामुपगुशब्दात् प्रत्ययाप्रात्पावपि 'ऋद्धस्यौपगवः' इत्यादिप्रयोगवारणाय समर्थपरिभाषोपस्थितिस्तद्धितेऽप्यावश्यकीति भावः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy