SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ देवाताप्रत्ययार्थनिर्णयः। पुष्याभिन्ननक्षत्रकर्मकशशिभोगाश्रयकालाभिन्नपौर्णमासीघटितो मा. स इत्यादिबोधः । पौषादिपदं च न केवलयोगिकम् । 'पौषः पक्ष' इति व्यवहारात् । किन्तु रूढमपि । एतद्बोधनायैव सूत्रे संशाग्रह. णम् । रूढिनिरूपकतावच्छेदकं च त्रिंशत्तिथिसमुदायत्वरूपमासत्वमात्रम् । यत्किञ्चित्तिथ्यवधिकत्रिंशत्तिथिसमुदाये मासादिव्यव. हारेऽपि चान्द्रसौरपौषादिबहिर्भूतपोषादिघटितत्रिंशत्तिथ्यन्तर्गत. तिथिषु पौषादिव्यवहारविरहात , किन्तु शुक्ल प्रतिपदादिदर्शाऽन्तः । तिथिसमुदायत्वमतो नोक्तदोष इत्याद्यन्यत्र विस्तरः।। . "तदस्यास्त्यस्मिन् " (पा० सू० ५। २। ८४) इति सूत्रेण प्र. थमान्तादस्त्यर्थोपाधिकात् सम्बन्धिन्यधिकरणे च मत्वर्थीयो वि. धीयते । यद्यप्यस्येत्युक्तेः षष्ठयर्थसम्बन्ध एव मतुबादिविधानमा. भाति, तथापि गोमाँश्चैत्र इति सामानाधिकरण्यानुरोधात् सम्बन्धिः वाचकतैवेत्युक्तं प्राक् । एवञ्च गोमानित्यादौ गोनिरूपितस्वामित्व. सम्बन्धवानित्याद्यन्वयबोधः। नच, भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ॥ सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुवादयः॥ इति सम्बन्धसमकक्षतया भूमाद्यर्थीनामप्युपादानात् तेषामपि मतुबादिशक्यत्वमिति शङ्यम् । स्यादेवं यदि तेष्वर्थेषु मतुबादीनां विधायकं सुत्रादिकमुपलभ्यते, किन्तु प्रयोगोपाधित्वमेव तेषाम । अस्त्यर्थवद् गवाद्विपदानां बहुत्वादिविशिष्टलाक्षणिकतयैव भूमा. दिप्रतीतिसौलभ्याच्च । अन्ये त्वस्तिशब्दान्मतुबर्थ तद्गहणमित्या. हुरिन्यत्र विस्तरः ।। __ इत्यादिकमित्यादिपदात् , "तस्यापत्यम्" (पासू०४।१। ८२) "तेन रक्तं रागात्' (पा० सु०४।२।१।) "संस्कृतं भक्षाः” (पा० सू०४।२।१६) इत्यादिसकहः । तत्र 'गार्गि:'रित्यादौ ताद्धतार्थापत्यस्य प्रत्ययपुरुषरूपस्यैकदंशे जन्यत्वे प्रकृत्यर्थगर्गादेर्निरूपकतया प्रत्ययाद्गगेनिरूपितजन्यताश्रयः पुमानित्यादिबोधः। 'गार्य' इत्या. दौ तु जन्यपुरुषजनकपुरुषाद्यात्मकगोत्रापत्यार्थकदेशे जन्यत्वे प्र. कृत्यर्थान्वयः । 'गाायण' इत्यादौ तद्धितार्थयुवापत्यैकदेशे गोत्रप्र. त्ययान्तार्थस्य निरूपकतयाऽन्वयः। परन्तु “जीवति तु वंश्ये युवा" (पा० सू० ४। १ । १६३) इति परिभाषणाद् गर्गजीवनसमानका.
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy