________________
३९० दर्पणसहिते वैयाकरणभूषणसारे =अनुपपत्तिज्ञानापूर्वकत्वमनादिप्रयोगावच्छिन्नत्वं(१)वा तत्त्वमिति भावः ॥ ५४॥ अनयैव रीत्यान्यत्राप्यवधेयमित्याहक्रीडायां णस्तदस्यास्तीत्यादावेषैव दिक् स्मृता ॥ वस्तुतो वृत्तिरेवेति नात्रातीव प्रयत्यते ॥ ५५॥ . "तदस्यां प्रहरणमिति क्रीडायां णः" ( पा० मू० ४ । २ । ५७) इत्यत्र प्रहरणविशिष्टा क्रीडा प्रहरणक्रीडे क्रीडामात्रं वार्थः। आदिना, “सोऽस्य निवासः"(पा० मू०४ । ३ । ८९) “सास्मिन् पौर्णमासीति" ( ४ । २ । २१ ) "तदस्यास्त्यस्मिन्निति मतुप्" (पा० सू० ५।२।१४ ) इसादिकं संगृह्यते ।
हारादाह-*अनादीति* ॥ एतत्तत्वमभिहितं प्राक ॥ ५४॥
एकदेशान्वयप्रसङ्गमाह-*प्रहरणक्रीडेति * ॥ व्युत्पत्तिवैचित्र्या. देकपदोपस्थितयोरपि तयोः परस्परमन्वय इति भावः ॥ प्रहरणस्या. पि प्रकृत्यैव लाभमभिप्रेत्याह-*क्रीडामात्रश्चेति ॥ क्रीडारूपसम्ब. न्धे वेत्यर्थः ॥ मात्रपदेन तत्वहरणस्य तद्धितार्थत्वव्यवच्छेदः ॥ त. थाच दण्डाभिन्नप्रहारसाधनविशिष्टा क्रीडेति बोधः॥ *सोऽस्ये. ति* ॥ एतत्सूत्रविहितप्रत्यस्य निवासः सम्बन्धी चार्थः । अत्र नि. वासशब्दोऽधिकरणघअन्तः-निशब्देन च वासे नैरन्तर्यरूपाति. शयः प्रत्याय्यते । स च प्रकरणादिना तत्तत्कालघटितो ग्राह्यः। त. थाच स्रुध्नाभिन्नवासाऽधिकरणसम्बन्धीति बोधः । निवासश्च प्र. त्यासत्या प्रत्ययार्थसम्बन्धिकर्तृक एव । अत एव कादाचित्करुना. वासकर्तरि न तथा प्रयोगः॥
*सास्मिन्निति* ॥ सूत्रविहित्तद्धितस्य तु पौर्णमासीघटितत्वावच्छिन्नोऽर्थः । नक्षत्रयुक्तकालविहिताऽणाचन्तपोषादिशब्दानां
(१) अनादिप्रयोगावच्छिन्नत्वमिति । लक्ष्ये योऽनादिप्रयोगस्त. दवच्छिन्नमित्यर्थः । प्रयोगस्यावच्छेदकत्वं च कर्मतासम्बन्धेन ।