________________
देवताप्रत्ययार्थनिर्णयः। .
३८९
शक्यत वक्तुमिति दिक् । देवतायां देवतात्वेन रूपेण निरूढेति
ननु तेषां कर्तुरनन्यलभ्यत्वान्न प्रत्ययाऽवाच्यत्वं, किन्तु प्राधा. न्यापत्तरेव तत्वमत आह-*दिगिति* ॥ तदर्थस्तु “प्रकृतिप्रत्यया. र्थयोः" इति न्यायस्य सङ्ख्यादौ व्यभिचारेण तेन प्राधान्यापत्यभा. वात् । "भावप्रधानमाख्यातम्" इति निरुतात्तस्याख्यातार्थाऽतिरिक्तप्रत्ययाऽर्थविषयकत्वोपगमाञ्चेति । ____ अत्रेदं बोध्यम् । तद्धितस्य देवतात्वाघटितार्थकत्वे, "तद्धिते. न चतुर्थ्या वा" इति न्यायस्य सर्वसिद्धस्यानुपपत्तिः । नच तद्धि. स्य तदर्थकत्वेऽपि कथं तदपक्षया चतुर्था जघन्यत्वत्यागोद्देश्यका रूपदेवताबोधकत्वस्योभयत्राविशिष्टत्त्वादिति वाच्यम् । न हि देव. तासम्बन्धिदेयमात्रं तद्धितार्थः, किन्तु वेदबोध्यदेवतात्वघटितः। एवञ्च तद्धिताऽर्थेन यागस्य देवतात्वां ऽशे वेदबोध्यत्वाऽवगाहित्वे. न तदंशे अप्रामाण्यशङ्काया अनुदयात्तदिति विनियोजकतया बलवत्वं, चतुर्थ्या तु तदंशे वेदबोध्यत्वानवगाहिबोधस्यैव जननेन त. त्र प्रामाण्यशङ्कानिरासार्थमुपायान्तरस्यापक्षणाजघन्यत्वम्।
यद्वा तद्धितेन देवतात्वेन रूपेण देवताबोधे, “साऽस्य देवता" (पा० सू० ४।२।२४) इति स्मरणमस्ति । चतुथ्यास्तु देवतात्वे न स्मरणम् । “चतुर्थीसम्प्रदाने" इति (पा० सू० २। ३।१३) इति सम्प्रदान एव तत्स्मरणात् । सम्प्रदानत्वं च त्यज्यमानद्रव्योद्देश्यका त्वे सति प्रतिग्रहीतृत्वम् । एवञ्च ततः सम्प्रदानत्वघटकतया देव. तात्वप्रतीतावपि तद्धितादिव मुख्यतया देवतात्वानधिगमात् तस्या. स्तद्धिताऽपेक्षया जघन्यत्वम् । एवं मन्त्रवर्णादधिष्ठानप्रतीतावपि देवतात्वस्य साक्षादप्रतीतेमन्त्रवर्णस्य चतुर्थ्यपेक्षया जघन्यत्वं बो. ध्यम् । तद्धितस्य देवतार्थकत्वाऽनभ्युपगमे तु तदसङ्गतिः स्पष्टैवेति ।
नन्विन्द्रादिपदाच्छक्तयैव देवतालाभे तत्र लक्षणाभ्युपगमो व्यर्थोऽतआह-*देवतात्वेन रूपेणेति ॥ तथाच, "शक्यादन्येन रू. पेण ज्ञाते भवति लक्षणा" इतिवृद्धोक्तर्देवताया इन्द्रस्वरूपायाः श. क्यत्वेऽपीन्द्राभिन्नदेवतात्वेन तद्भानार्थ सोचितैवेति भावः । अनु. पपत्तिज्ञानपूर्विकायामपि तीरनिष्ठगङ्गापदलक्षणायां निरूढत्वव्यव.