________________
दर्पणसहिते वैयाकरणभूषणसारे
न च 'ऐन्द्र दधि' इत्यादौ द्रव्यस्य पदान्तराल्लाभात् कुतः पुनः प्रत्ययस्य तत्र शक्तिः कल्प्यत इति वाच्यम् । पदान्तराश्रवणेऽपि तत्प्रतीतेः । ऐन्द्रं दधीति सामानाधिकरण्याच्च ।
अन्यथाssख्यातस्यापि कर्त्तृकर्मवाचित्वं न स्यात् । मीमां सकानां पुनः प्रत्ययस्य देवतास्त्रमेवार्थोऽस्तु । द्रव्यं पदान्तरालभ्यत एवेति आख्यातस्य कर्त्तृवद्वाच्यत्वं मास्त्रिति कुतो न
ध्यम ॥ *लाभादिति* ॥ समभिव्याहृतदध्यादिपदेन देवतारूपसम्बन्धिभानादित्यर्थः ॥*कुतः पुनरिति ॥ "अनन्यलभ्यो हि शब्दार्थ” इति न्यायात् । किन्तु सम्बन्ध्यर्थकत्वमेवोचितमिति भावः ॥ *तस्प्रतीतेरिति ॥ देवतासम्बन्धिप्रतीतेरित्यर्थः ॥ तथाच तदनुपपक्या तद्धितस्य तदर्थकत्वमावश्यकमिति भावः ।
पदान्तराश्रवणं सम्बन्धिप्रतीतेरप्यर्थनिर्णेयत्वादाह- ऐन्द्रं द धीति* ॥ सम्बन्धमात्रार्थकत्वे सामानाधिकरण्यानुपपत्तिरित्यर्थः ॥ *अन्यथेति* ॥ उक्तानुपपत्तेस्तदसाधकत्वे इत्यर्थः । पचति देवद'न्तः' 'पच्यते तण्डुल' इत्यत्र सामानाधिकरण्यानुपपत्तिर्हि कर्त्रादिवाचित्वसाधिकेति भावः । वैयाकरणान् प्रतीयमापत्तिः । मीमांस' कान् कटाक्षीकृत्याह -* मीमांसकानामिति ॥ तन्मते तत्तदेवताक त्वरूपप्रत्ययार्थेन धर्मिण आक्षेपालाभेन सामानाधिकरण्योपपत्तेरिति भावः । पदान्तरादित्याक्षेपस्याऽप्युपलक्षणम् ॥ ●वाच्यं मास्त्विति* ॥ आख्यातस्य कत्तैव तद्धितस्य द्रव्यं वाच्यम् मास्त्वित्यर्थः । इष्टापत्तौ 'आमिक्षां देवतायुक्ताम्' इति त्वत्सिद्धान्तभङ्ग इति भावः (१) ।
( १ ) इदमाकूतम् । मीमांसकैः आख्यातस्य कर्ता न वाच्यः किन्तु भावना, कर्तुस्त्वाक्षे पाल्लाभसम्भवात्, 'अनन्यलभ्यः शब्दार्थ इति न्यायात् पदान्तरेण समभिव्याहृतेनोक्तत्वाञ्च्चति यथा स्वीक्रियते, तथाऽत्रापि प्रदेयस्य पदान्तरलभ्यत्वात् केवलदेवतात्वमेव प्रत्ययार्थोऽस्तु तस्य च पदान्तरलब्धप्रदेयेऽन्वयेन विशिष्टलाभसम्भवात् । एवञ्च प्रत्ययस्य प्रदेये शक्तिर्न सिध्येत् । नचेष्टापत्तिः "आमिक्षां देवतायुक्ताम्” इति वार्तिकविरोधादिति ।