________________
देवताप्रत्ययार्थनिर्णयः। ३७ अभेदश्चात्र संसर्ग आग्नेयादावियं स्थितिः ॥ देवतायां प्रदेये च खण्डशः शक्तिरस्तु वा ॥ ५३ ॥ ___ एकदेशे-देवतारूपे । तच विशेषणमभेदेनेत्याह-अभेदश्चेति ॥ ननु देवतायाः प्रत्ययार्थैकदेशत्वान्न प्रकृत्यर्थस्य तत्राभे. देनाप्यन्वय(१)इत्याशयेनाह-देवतायामिति ॥ तथाच पदार्थंकदेशतैव नास्तीति भावः ॥ ५३ ॥
नन्वग्न्यादिदेवस्य प्रकृत्यैव लाभान्न तत्र शक्तिः कल्प्या। न च देवतात्वेन रूपेणोपस्थितये सा कल्प्यते । प्रकृतेर्लक्षणयै. व(२)तथोपस्थितिसम्भवात् । उपसर्गाणां द्योतकत्वनये प्रजयतीत्यत्र प्रकृष्टजयप्रत्ययवदित्यभिप्रेत्याहप्रदेय एव वा शक्तिः प्रकृतेवास्तु लक्षणा ॥ देवतायां निरूढेति(३)सर्वे पक्षा अमी स्थिताः ॥५४॥
तार्थेऽन्वयः। तस्य च स्वोदेश्यकत्यागकर्मत्वसम्बन्धेन द्रव्यरूपता द्धिताऽपरपदार्थे इति बोध्यम् ॥५३॥
*द्योतकत्वनय इति* ॥ वाचकत्यनये प्रकर्षस्योपसर्गाऽर्थत्वेन तद्विशिष्टे धातौ लक्षणाया अकल्पनेन दृष्टान्तत्वासम्भवादिति भा. वः॥ *प्रकृष्टजयवदिति* ॥ प्रकृत्यंशमात्रमादाय दृष्टान्तत्वं बो.
(१) अभेदेनाप्यन्वय इति । भेदसम्बन्धेनान्वयो न सम्भवति त. स्य बाधितत्वादिति सूचनायापिशब्दः । अथवा स्ववृत्तिदेवतात्वरूप. धर्मत्वसम्बन्धेनान्वयनिरासाय 'अपिः' उपात्तः।
(२) लक्षणयैवेति । अग्न्यादिशब्दोऽग्न्यादिदेवतायां लाक्षणि. क इत्यर्थः।
(३) निरूढेति । अनादितात्पर्यवती निरूढलक्षणेत्यर्थः।