SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३८६ दर्पणसहिते वैयाकरणभूषणसारे कल्पनावश्यकत्वात । अत एव आमिक्षा देवतायुक्तां वदत्येवैष तद्धितः । आमिक्षापदसान्निध्यात्तस्यैव विषयार्पणम् ॥ इति । केवलाद्देवतावाची तद्धितोऽग्नेः समुच्चरन् । नान्ययुक्ताऽग्निदैवत्यं प्रतिपादयितुं क्षमः ॥ इति च मीमांसकैरप्युक्तमित्याशयेनाहप्रत्ययार्थस्यैकदेशे प्रकृत्यों विशेषणम् ॥ ५२ ॥ तस्य तत्स्वामित्वाबाधात् 'ऐन्द्रो मन्त्र' इत्यादी मन्त्रस्य तद्देवता. कत्वं च न तदुद्देश्यकत्यागकरणत्वम् । विनाऽपि मन्त्रमिच्छाविशे. षात्मकत्यागोत्पत्याऽव्यभिचारात् । किन्तु त्यागाङ्गोचारणकत्वम् । एवञ्च देवतासम्बन्धी प्रत्ययार्थः । ननु तद्देवताकत्वे 'ऐन्द्रं हविः' इति सामानाधिकरण्यानुपपत्तेः। स चामिक्षादिपदसमभिव्याहारे तत्तद्रव्येण प्रतीयते । देयं प्रत्यः यार्थ इति तु तस्यामिक्षादिपदसमभिव्याहारे दानकर्मत्वेनापि प्रती. तेरित्यभिप्रेत्योक्तमिति भाषः । उक्ताऽर्थे सम्मतिमाह-*अत एवे. ति* ॥ देवतासम्बन्धिनः प्रत्ययार्थत्वादेवेत्यर्थः॥ * सान्निध्यादिति* ॥ सा=आमिक्षा वैश्वदेवीत्यत्रामिक्षापदसमभिव्याहारादित्यर्थः॥ *विषयार्पणमिति * ॥ आमिक्षात्मकद्रव्यस्यैव देवतोद्देश्यकत्यागकमत्वप्रतीतिरित्यर्थः ॥ *केवलादिति* ॥ सोमादिपदासमभिव्याहृतात् ॥ अग्नेः-अग्निशब्दात् , समुच्चरन्प्रत्ययत्वात्पुरः प्रादुर्भवन् । आग्नेयोऽष्टाकपालो भवत्यमावास्यायाम्" इत्यादौ ॥ *नान्येति* ॥ सोमादिसाहि. त्यापनाऽग्निदेवतोद्देश्यकं द्रव्यं प्रतिपादयितुं नेष्टे, किन्तु तद्देवताकमेवति तद्भावः । तथाच देवताविशिष्टदेयस्य तद्धितार्थत्वं तेषामपि सम्मतमिति भावः ॥ ___ *प्रकृत्यर्थेति* ॥ 'पदार्थः पदार्थेनाऽन्वेति' इति व्युत्पत्तेरिति. भावः ॥ अस्मिन् कल्पे च प्रकृत्यर्थस्याभेदसम्बन्धेन देवतारूपतद्धि
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy