________________
- देवताप्रत्ययार्थानर्णयः।। ३८५
॥ अथ देवताप्रत्ययार्थनिर्णयः ॥ .... (१)"सास्य देवता" (पा० सू० ४ । २ । २४ ) इत्यत्र देवताविशिष्टं(२)देयं प्रत्ययार्थः । ऐन्द्री, वैश्वदेवीत्यादौ इन्द्रादेर्देवतात्वोपस्थापकान्तराभावात् तेन रूपेणोपस्थितये शक्ति.
कसमूहालम्बनादेकपदार्थोदबोधकाऽसमवधानेऽन्यपदार्थस्मृतिः । अक्लप्तस्यार्थीऽशे पदविशेषणत्वस्य कल्पनापेक्षया तादृशस्मृती प्रमेयत्वांश मोषकल्पनस्यैव न्याय्यत्वात्। पदस्यार्थधर्मत्वाभावेन तस्य पदांशे विशेषणत्वासम्भवाश्च । तस्य पदस्य तस्मिन् पदे श. क्तिरित्यर्थस्य लौकिकत्वेन पदप्रकारकबोधस्य सार्वत्रिकत्वासम्भ. चाच्चेत्याहुः ॥५१॥
इति भूषणसारदर्पणे भावप्रत्ययार्थनिरूपणम् ॥ ९॥
ननु देवताया इन्द्रादिपदाल्लाभेन तदन्तर्भावेण तद्धितशक्तिकल्प: नमनर्थकमत आह-*देवतात्वोपस्थापकोत*॥ इन्द्रत्वेन रूपेण दे. वतोपस्थितावपि देवतात्वेन रूपेण तदुपस्थापकाभावादित्यर्थः। *ते. न रूपेणेति* ॥ देवतात्वेन रूपेणेन्द्रोपस्थितये इत्यर्थः । अन्यथा
तद्धितेन चतुर्छा वा मन्त्रलिङ्गेन वा पुनः ।
देवतासङ्गतिस्तत्र दुर्बलं च परं परम् ॥ . इति मीमांसकसिद्धान्तासङ्गतिरिति भावः। द्रव्यस्य देवतासः म्बन्धित्वं च तदुद्देश्यकत्यागकर्मत्वं त्यागोद्देश्यत्वमपि वेदबोधिताः बाधितद्रव्यस्वामित्वप्रकारेणेच्छाविषयत्वम् । तदेव च देवतात्वम् । नाऽतो घृतादिसम्प्रदानब्राह्मणस्य त्यागोइंश्यत्वेऽपि देवतात्वम् । - (१) ननु प्रथमोपस्थितापत्यार्थकतद्धितार्थकथनमुचितमितिचेत् प्रत्ययार्थस्यापत्यरूपस्यैक्यातू, तत्र च प्रकृत्यर्थस्य जन्यजनकभावः सम्बन्धादिरूपभेदसम्बन्धेन प्रकारतायाः सुगमत्वेन देवतार्थकतद्धि. तेषु नानापक्षसम्भवेन दुरूहत्वेन तदर्थनिर्णयावश्यकर्तव्यतयाऽपत्या. र्थकतद्धितस्यौचित्येऽपि त्याग इति बोध्यम् ।
(२) देवताविशिष्टमिति । स्वस्वामिभावसम्बन्धेन स्वोद्देश्यकत्यागकर्मत्वसम्बन्धेन वा देवताविशिष्टं देयमित्यर्थः।
४९