________________
३८४
दर्पणसहिते वैयाकरणभूषणसारे
पदं कचिच्छक्तं, साधुपदत्वादित्यादिरूप एवापेक्ष्यते इति विशिव्यागृहीतशक्तिकेभ्यस्तथैव बोधः । तथाच शब्दोऽपि (१) त्वमसार्थ इति प्रपञ्चितं भूषणे ।। ५१ ।।
इति वैयाकरणभूषणसारे त्वादिभावप्रत्ययार्थविचारः ॥ ९ ॥
त्तिः स्पष्टैव । अत एव सारकृताऽप्युभयमवच्छेदकामित्युपसंहृतमू-कचिच्छन्दोऽपीति, तदाशय इति । कथं तर्हि तत्र शक्तिग्रहोत आह - *किन्त्विति ॥
*क्वचिच्छक्तमिति* ॥ किञ्चिन्निष्ठशक्तिनिरूपकमित्यर्थः । तथाच नृपादिवर्णनप्रस्तावे नृपत्वादिनोपस्थितनलादीनां शक्त्यंशे भान उपस्थितत्वान्नलादिपदानामपि तदर्थे भानमविरुद्धमिदमेतच्छक्यमित्याकारकाऽर्थशक्तिग्रह एव विशेषरूपेणोपस्थितेस्तन्त्र स्वादिति भावः । * तथैव बोध इति ॥ पदवाच्यत्वप्रकारक एवत्यर्थः(२) । एवकारेण जात्यादिप्रकारकबोधव्यवच्छेदः । इदञ्च कश्चि 'दर्थो नलादिपद शक्योऽर्थत्वादित्यानुमानिकशक्तिग्रहाभिप्रायेण । उकोपनीतपदशक्तिग्रहे त्वर्थविशेष्यक बोधानुपपत्तिरेव । शक्तिज्ञानपदार्थोपस्थितिशाब्दबोधानां समानप्रकारकत्वनियमादित्यवधेयम् ॥
नैयायिकास्तु- नलादिपदानामपि विशिष्य शक्तिग्रहो नानुपपनः । यत्र नलत्वादिसम्बन्धेन यत्किञ्चिद्धर्मवत्वधीस्तद्विषयीभूतनलत्वादेः शक्तिग्रहे धर्मितावच्छेकतया भाने बाधकाभावात् । यद्वा यत्र प्रमेयत्वेन प्रमेयवानित्याकारा नलत्वादिविशिष्टबुद्धिः, ततश्च प्रमेयत्वाशे मोषदशायां स्वरूपतो नलत्वादिप्रकारकनलविशेष्यकस्मरणे बोधकाऽभावात्तद्विषयनलत्वादिना विशिष्य नलादौ नलादिपदशक्तिग्रहेण तद्रूत्तपेण नलादिपदान्नलादिबोधस्य सुलभत्वात् ।
न च प्रमेयत्वांशे मोषकल्पने मानाभावः । अनुभूयमानतत्तद्धर्मप्रकार कशाब्दबोधानुपपत्तेरेव मानत्वात् । कथमन्यथानुभवात्म
I
(१) शब्दोऽपि । अपिशब्दो जात्यादिसमुच्चायकः । ( २ ) शक्तिग्रहवैलक्षण्याद्बोधवैलक्षण्यमिति भावः ।