SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ - त्वादिभावप्रत्ययार्थनिर्णयः । गरिकान् (१)प्रत्यबोधकत्वापत्तेश्च । एवमेवाप्रसिद्धार्थकपदेष्वनुभवः सर्वसिद्धो, न तु घटादिपदेष्विव तत्तजात्यादिरूपेण । तथाचोभयमवच्छेदकम् । यस्य तथा शक्तिग्रहस्तस्य जासादिरूपेगैवीपस्थितिः । पदप्रकारकः शक्तिग्रहस्तु विशिष्य नापेक्षितः। किन्तु इदं आरण्यकानां सन्निकर्षेण जातिप्रकारकशक्तिग्रहसम्भवादुक्तम्*नागरिकानिति* ॥ *एवमेवेति ॥ पदप्रकारेणैवेत्यर्थः ॥ *अप्र सिद्धेति*। अगृहीतजातित्वादिविशिष्टशक्तिकपदवित्यर्थः ॥ *जा. त्याभेदेनेति* ॥ तद्विशेषेणेत्यर्थः ॥ क्वचितु जात्यादिरूपेणैवेत्येव पाठः ॥ *उभयमिति* ॥ जात्यादिरूपं पदं चेत्यर्थः ॥ *अवच्छेदकमिति* ॥ शक्त्यवच्छेदकमित्यर्थः। ननु जात्याद्यनुपस्थितिदशायामयमर्थ एतत्पदवानिति शक्तिः ग्रहोऽप्यसम्भवदुक्तिकोऽत आह-#पदप्रकारक इति ॥ *विशिष्ये: ति। घटपदत्वादिरूपेणेत्यर्थः । यद्यपि सर्वे भावा इति सर्वशब्दोपा. दानादेतत्कलो शब्दस्येव सवर्शब्दप्रवृत्तिनिमित्तत्वमगम्यते, तथापि घटत्वादिना गृहीतशक्तिकघटादिपदाद्घटत्वप्रकारकबोधस्य सार्वजनीनप्रसिद्धिसिद्धस्यापह्नोतुमशक्यतया प्रायशः प्रसिद्धार्थकस्थले शब्दाप्रकारकबोधस्याननुभवेन चैतत्कल्पेऽपि जात्यादीनां शब्दप्र. वृत्तिनिमित्तत्वमङ्गीकरणीयमेव । ... वार्तिकं तु भावशब्दस्याप्रसिद्धार्थकशब्दपरतया योज्यम् । तत्र निमित्तान्तराभावन वार्तिकबलाच्छब्दप्रवृत्तिनिमित्तत्वावधारणात् । यथा कादिपञ्चकशक्तकुपदे। अत एव "अनुदात्तङित" ( पा० सू० १ । ३ । १२ । ) इति सूत्रेऽनुदात्तङितौ द्वावात्मनेपदमि. त्यस्य "तङानौ द्वावर्थ" इति तत्र “सङ्ख्यातानुदेशः प्राप्नोति" इ. ति यथासङ्ख्यसूत्र भाष्यकृदुक्तं सङ्घच्छते । अन्यथा नवानां तङर्थ. त्वेनात्मनेपदवत्वेन बोधे सर्वेषामकत्वन तत्र च द्वावित्यस्थानुपप. .. (१) नागरिकपदम् विशेषरूपेणानभिज्ञपरम् तेन कस्यचिन्नाग. रिकस्य विशेषरूपेण बोधेऽपि नासङ्गतिः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy