SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३८२ दर्पणसहिते वैयाकरणभूषणसारे भवन्ति, स तेषां भाव" इति वार्त्तिकोक्ते यद्वाशब्दस्तत्सूचनप्रयोजनकोsपि । भवन्ति वाचकत्वेन प्रवर्त्तन्ते इति भावाः-शब्दाः | स्वेन=स्वरूपेण = अर्थेन भवन्ति = प्रवर्त्तन्ते । अतः स तेषां भावः प्रवृत्तिनिमित्तमित्यर्थः । अयं भावः । अर्थवच्छन्दोऽपि द्रव्ये प्रकारः । हरिहरनले - क्ष्वाकुयुधिष्ठिरवसिष्ठादिशब्देभ्यस्तत्तद्वाच्यः कश्चिदासीदिति शब्दमकारक बोधस्य सर्वसिद्धत्वात् । अन्यथा वनौषधिवर्गादेन एव भावप्रत्ययवाच्य इति मतान्तरमित्यर्थः । " अथ कस्माद्वोरित्युच्यते गौरित्येव हि गौर्गवि वर्त्तते इत्यौक्थिका" इति निरुक्तमध्ये तत्कल्पे उपष्टम्भकं बोध्यम् । *तत्सूचन प्रयोजनकोऽपीति* ॥ यद्वाशब्दघटितोक्तवार्त्तिकसूचन प्रयोजनकोऽपीत्यर्थः ॥ अपिना पक्षान्तरसङ्ग्रहः । वार्त्तिके "स्वेनाऽर्थेन भवन्तीत्यत्र स्वशब्दस्यात्मीयवचनतयात्मीयाऽर्थेन जात्यादिना प्रवर्त्तत इत्यर्थात् कथं पक्षान्तरपरता कथं वार्थावृत्तेर्धर्मस्य शब्दस्य भावत्वं चेत्यत आशयं प्रकाशयति* अयं भाव इति* ॥ जात्याद्यर्थस्य द्रव्यांशे विशेषणतायाः प्रसिद्धत्वात्तद्दृष्टान्तेन शब्दस्यापि तां साधयति *अर्थवदिति ॥ जात्यादिवदित्यर्थः ॥ शब्दस्यार्थविशेषणतायामसाधारणस्थलमाह -#हरिहरेति ॥ कश्चिदासीदित्यनेन जात्यादिप्रकारक बोधासम्भवो ध्वन्यते । हर्य्यादौ सन्निकर्षाभावेनानुपस्थितहरित्वाद्यवच्छेदेन शक्तिग्रहाभावेन तद्धमैप्रकारकशाब्दबोधासम्भवादुपस्थित पदस्यैव विशेषणत्वमभ्युपगम्य शाब्दबोध (१) उपपादनीयः । यथाच वृत्त्या दुपस्थितिस्तथोपपादितं नामार्थनिरूपण इति भावः ॥ *अन्यथेति* ॥ अर्थाशे शब्दस्य प्रकारत्वानभ्युपगम इत्यर्थः । ( १ ) शाब्दबोध इति । सामान्यरूपेणेति शेषः । विशेषरूपेण शक्तिग्रहासम्भवात् – 'इदं पदं कचिच्छक्तं पदत्वात् साधुपदवत्' इति सामान्यतोऽनुमित्यात्मकशक्तिग्रहसत्वात् सामान्यरूपेणैव बोधः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy