________________
त्वादिभावप्रत्ययार्थनिर्णयः ।
३८१
च्ये स्वतलावित्यर्थः । तथाच रूपादिशब्देभ्यो जातौ शुक्लाणुदीर्घमहदादिभ्यो गुणे, (१) पाचकादिशब्देभ्यः क्रियायां घटादिशब्देभ्यो जातौ प्रत्ययः ।
रूपादिशब्दानां जातिप्रकारकबोधजनकत्वात् । पाचकादिशब्दानां क्रियामकारकबोधजनकत्वे तस्यां प्रत्ययः । संसर्गप्रकारकत्रोधजनकत्वमिति मते च संसर्ग इति व्यवस्था सूपपादेति भावः । तत्र जातिवाचकानां व्यक्तय एव शक्यतावच्छेदिकाः । तथाच घटत्वमित्यत्र घटवृत्तिरसाधारणो धर्म्म इति बोध इत्यादि द्रष्टव्यम् ।
पक्षान्तरमाह - यद्वेति ॥ " यद्वा सर्व्वे भावाः स्वेनाऽर्थेन
पदमुपसर्जनीभूतार्थपरमिति भावः । पर्यवसितमाह -* तथाचे. ति* ॥ रूपादीत्यादिना रसादेर्गुणपरशुक्ला देश्च सङ्ग्रहः ॥ *बोधज नकत्व इति ॥ बोधजनकत्वमत इत्यर्थः । व्यपेक्षावादे क्रियाकारकभावसम्बन्धेन कृदर्थकर्त्रादौ धात्वर्थस्यैव प्रकारतया भानोपगमादिति भावः । स्वसिद्धान्तमनुसृत्याह -*संसर्गप्रकारकेति ॥ * सूपपादेति* ॥ भावप्रत्ययो जातावेवेत्याद्यनियमादिति भावः ॥ *तत्रेति* ॥ जात्यादिवाचकभावप्रत्ययेषु मध्ये इत्यर्थः ॥ #जातिः वाचकानामिति* ॥ अर्थनिष्ठशक्तेरिति शेषः ।
गुणाद्यात्मकभाववचनानां अक्लत्वादिशब्दानां जातेः शक्यताSवच्छेदकत्वसम्भवादाह-*जातिवाचकानादिति ॥ भावप्रत्ययानाः मिति शेषः ॥ *अवच्छेदिका इति* ॥ उपस्थितत्वाद् घटत्वादि जातिनिष्ठशक्तेः स्वेतरावृत्तित्वावच्छिन्न निखिलस्ववृत्तिरूपाधेयत्वादिसम्बन्धेनाऽवच्छेदिका इत्यर्थः । तेन न द्रव्यत्वादिनिष्ठशकेघंटाघच्छिन्नत्वम् । अवच्छेदकानुगमकं च गोत्वादिकमेवेति भावः । पर्यवसितबोधमाह-*घटवृत्तिरिति ॥ *पक्षान्तरमिति ॥ तच्छन्द
(१) गुण इति । गुणिपरशुक्लादिभ्यो गुणे | गुणपरेभ्यस्तु तेभ्यस्तद्वृत्तिजाताविति । अण्वादिशद्वा नित्यं गुणिपरा इति तेभ्यः परिमाणरूपे गुण एव प्रत्यय इति बोध्यम् ।