SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ दर्पणस्वहिते वैयाकरणभूषणसारे सम्बन्धिभेदात् सत्चैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥ तां प्रातिपदिकार्थश्च धात्वर्थञ्च प्रचक्षते । सानिया सा महानात्मा तामाहुस्त्वतलादयः ॥ इति वाक्यपदीयात् । उक्तञ्च "तस्य भावस्त्वतलौ" (पा० सू० ५ । १ । ११९ ) इति सूत्रे वार्त्तिककारै:- " यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने स्वतलौ" इति । ३८० यस्य गुणस्य = विशेषणतया भासमानस्य, भावाद् = आश्रयत्वाद्, द्रव्ये - विशेष्ये, शब्दनिवेशः = शब्दमवृत्तिः, तस्मिन् वा गुरोरपि धर्मस्य कम्बुग्रीवादिमत्वस्य बोधनेन तद्वद्घटत्वमित्यादौवपि गुरोर्धर्मस्य त्वप्रत्ययेन बोधनसम्भवादाशङ्का निःसारेत्यपास्तम् | धर्मस्य भावप्रत्ययवाच्यत्वे सम्मतिमाह-सम्बन्धिभेदादिति* ॥ जातिः पदार्थ इति कल्पे साधकमिदम् । सम्बन्धिभेदाद्अनुयोगभदाद्, भिद्यमाना=गवेतरासमवेतत्वे सति सकलगोसमवेतत्वादिना तद्व्यक्त्युपरागेण वा पार्थक्येन प्रतीयमाना गवादिनिष्ठा ब्रह्मसत्तैव जातिरित्युच्यते । तस्यां सर्वे शब्दा वाचकत्वेन व्यव स्थिता इत्यर्थः । तदेव व्यक्तीकरोति - *तामिति ॥ तां तत्तदूव्यक्त्युपरक्तां सत्तामित्यर्थः ॥ *धात्वर्थमिति* ॥ आकृत्यधिकारणन्यायेन, "जातिमन्ये क्रियामाहुः" इति पक्षाभिप्रायेण वा । महानित्यात्मविशेषणम् । क्वचि जात्यादिः, कचित् सम्बन्धार्थ इत्युक्ताऽर्थे वार्त्तिकं प्रमाणयति*उक्तश्चेति* ॥ गुणशब्दस्य वैशेषिकाणां रूपादिष्वव प्रसिद्धेः । प्रकृतोपयुक्तार्थपरतामाह-*विशेषणतयेति* (१) । तथाच प्रकृते गु (१) उक्तं च कैयटेन 'गुणशब्देन यावान् कश्चित्पराश्रयो भेदको जात्यादिः सर्व इह गृह्यते इति ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy