SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ स्वादिभावप्रत्ययार्थनिर्णयः । ३७९ ननु घटत्वमियत्र प्रकारत्वात् तदुत्तरभावप्रत्ययेन घट. त्वत्वस्यापि वाच्यता स्यादित्यत्ष्टापत्तिमाह-धर्ममावमिति(१)। न त्वत्र लघुगुरुविचार इत्यभिप्रायः ॥ (२)तत्तद्व्यक्तिविशि. टब्रह्मसत्ताया एव घटत्वघटत्वत्वादिरूपत्वात् ।। त्वं वृत्तिमत्वं च बोध्यम् । नाऽतः कालादौ कालिकादिसम्बन्धेन घटत्वस्य वृत्तावपि क्षतिः । न वा घटत्वमित्यादौ कम्बुप्रीवादिमत्वस्य भानम् । प्रमेयत्वमित्यादौ त्वितरावृत्तित्वांऽशो न भासते अप्रसिद्धत्वात्, किन्तु सकलं प्रमेयवृत्तित्वमात्रम् । - नच विशिष्टस्याऽनतिरिक्तत्वमते गुणाऽन्यत्वविशिष्टसत्त्वमिः त्यादी विशिष्टसत्वे विशिष्टसदितरावृत्तित्वस्य महत्वमित्यादौ स. कलमहवृत्तित्वस्य महत्परिमाणादावसम्भव इति वाच्यम् । तदि. तरत्वव्यापकात्यन्ताभावप्रतियोगितावच्छेदकतवृत्त्यत्यन्ताभावप्र. तियोगितानवच्छेदकधर्मवत्त्वे दलद्वयतात्पात् । तत्राद्यदलं घट. त्वमित्यादौ द्रव्यत्वादेरसाधारण्यवारणायेति भावः ॥ *प्रकार. त्वादिति ॥ *घटत्वादिति*। घटत्वासाधारणधर्मत्वादिस्यर्थः।। लघुगुर्विति॥ . अयं भावः ॥ धर्मस्थासाधारणधर्मत्वेन वाच्यत्वेऽप्येकत्वमि. त्यादी परिमाणादौ नानापत्तिः । उक्तासाधारण्यस्य परिमाणे स. त्वात् । नच प्रकृत्यर्थतावच्छेदकनिरूपितत्वविशिष्टसमवायसरबन्धेन तदितरावृत्तित्वं तवृत्तित्वं च विवक्षितम् । न च तेन सम्ब. न्धेन परिमाणं तत्र वृत्तीति नोक्तदोष इति वाच्यम् । तथा सत्यनन्तशक्तिकल्पनावश्यकत्वे तत्तद्धर्मत्वेनैव धर्म शक्तिरस्तु, किमित. रावृतित्वादिगौरवसहिष्णुतया। .. - तदुक्तं गुणदीधितौ पृथक्त्वमित्यादौ प्रकृत्यर्थतावच्छेदकगुणा. न भावप्रत्ययः प्रतिपादयति । प्रतीतिस्तु तादूप्येण धर्मत्वेन वेत्य. न्यदिति । एतेन भावशक्तत्वादिप्रत्ययेन कम्बुग्रीवादिमत्वमित्यादी . .(१) धर्मत्वेन बाच्यता नतु तत्तद्रूपेण,शक्त्यानन्त्यप्रसङ्गादिति । (२) वस्तुतस्तु गौरवं नास्त्यवेत्याह तत्तद्वयक्तिविशिष्टब्रह्मति ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy