________________
३७८ दर्पणसहिते वैयाकरणभूषणसारे जन्यबोधे प्रकारे वादयो जायन्त इत्यर्थः । प्रकृतिजन्यबोधे प्र. कार इत्यत्र पक्षद्वयं स्थितमिति योजना ॥ ५० ॥ तौ पक्षावाहप्रयोगोपाधिमाश्रित्य प्रकृत्यर्थप्रकारताम् ॥ धर्ममात्रं वाच्यमिति यहा शब्दपरा अमी ॥ ५१ ॥ जायन्ते तज्जन्यबोधप्रकारे भावसंज्ञिते ॥
प्रयोग उपाधिनिमित्तं, प्रकृत्यर्थप्रकारतां प्रकारतयाभासमानं धर्म वाच्यतया आश्रिय स्वादयो जायन्ते । प्रकृति जन्यबोधे प्रकारस्त्वाद्यर्थ इति यावत् ।
ति* । वैयाकरणस्याऽपीत्यर्थः ॥ इदम्-कचिजात्यादिवाचकत्वं, क्वचित् सम्बन्धवाचकत्वमित्येवंरूपं वैषम्यमित्यर्थः ॥५०॥ __*प्रयोग इति* ॥ शद्वप्रवृत्तावित्यर्थः ॥ *निमित्तमिति* ॥ यद्धर्मवत्वेन ज्ञातेऽर्थे यशब्दः प्रयुज्यते स धर्मस्तच्छब्दप्रवृत्ती निमित्तमित्यर्थः ॥ स दामोदरत्वमित्यादौ जातिः, शुक्लत्वमित्यादी गुण एवेति । ननु प्रकृतिजन्यबोधप्रकारकत्वेनैवोपाधेः संग्रह तस्य पृथगुपादानं व्यथेमत आह- प्रकृतिजन्यति* ॥ स च प्रकृत्यर्थवृत्तिरसाधारणो धर्मस्तस्मिन्नसाधारणत्वं तदितरावृत्तित्वे सति तवृत्तित्वम् । सत्यन्तोपादाने द्रव्यत्वादेघंटासाधारण्यं, विशेष्यो. पादानाच्च तद्यक्तित्वादिनिरासः । तेन रूपेण धर्मों भावप्रत्ययवाच्यः । तत्र तत्पदार्थस्य घटादस्त्वादिप्रकृत्यैव लाभादनन्यलभ्य इत. रावृत्तित्वादी भावप्रत्ययस्य शक्तिः । तत्रापीतरवृत्तित्वमभावः । साकल्यं वृत्तिमच्च विशकलितमर्थः।
इतरवृत्तित्वप्रतियोगिकाभावस्यातिप्रसक्तत्वादितरवृत्तित्वत्वाऽवच्छिन्नप्रतियोगिताकाभावस्याप्रसिद्धत्वाद् घटत्वादी बाधाच्च वि. शिष्टस्य शक्यत्वासम्भवात् । अत्र च प्रकृतिजन्यबोधे येन सम्ब. न्धेन प्रतिपाद्यतावच्छेदकधर्मस्य प्रकारता तेन सम्बन्धेनेतरावृत्ति