SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ स्वादिभावप्रत्ययानिर्णयः । २७७ - न च तन्मते दण्डीत्यादिबोधे सम्बन्धः प्रकारः। यत्तुयदा स्वसमवेतोऽत्र वाच्यो नास्ति गुणोऽपरः । तदा गत्यन्तराभावात् सम्बन्धो वाच्यं आश्रितः ॥ इति (१)। तन्न । इनादेः सम्बन्धिवाचकत्वेनोपपत्तौ गत्यभावाभा. चात् । अपश्चितं चैतदादावेव वैयाकरणभूषणे । ननु तवापीदं वैषम्यं कथमित्यत आह-सिद्धान्ते विति ॥ (२)जायन्त इति वक्ष्यमाणविशेषणेऽन्वितम् । सिद्धान्ते प्रकृति नां प्रकृत्यर्थेऽप्रकारत्वादेवानातिप्रसङ्गात् । मीमासकैकदेशिमते म. त्वीयानां सम्बन्धावाचकत्वेऽपि तदाक्षिप्ताश्रयविशेष्यकबोधस्यैव तैरभ्युपगमेन तन्मतेऽपि प्रकृतिजन्यबोधविशेष्यांशे दण्डादीनाम: प्रकारत्वेन प्रयोजनविरहादिति विभावनयिम् ॥ *सम्बन्धः प्रकार 'इति* ॥ अस्य, येन तस्य त्वादिप्रत्ययवाच्यता स्यादिति शेषः। मीमांसकमतमुपन्यस्यति-*यत्त्विति* ॥ अत्र दण्डित्वमित्यादौ ॥ स्वसमवेतः-त्वादिप्रकृत्यर्थसमवेतः॥ नीलत्वमित्यादौ नीलादिगुणवन सम्भवति यतोऽतः सम्बन्धस्यैव भावप्रत्ययवाच्यत्वमा. श्रितमित्यर्थः । दण्डादेः प्रकृत्याशे प्रकारत्वेऽपि प्रकृत्यर्थोऽसम. घेतत्वेनाभावत्वादिति भावः॥ *सम्बन्धिवाचकत्वेनेति* ॥ “तदस्यास्त्यस्मिन्" ( पा० सू० ५।२।९४) इति मतुपः सम्बन्ध विधानेऽपि, "दण्डी पुरुष' इति सामानाधिकरण्यानुरोधात् सम्बन्धिवाचकत्वस्यावश्यकत्वादिति भावः ॥ गत्यभावाभावादिति* ॥ सम्बन्धस्यैव भावत्वसम्भवादि. ति भावः ॥ *आदावेवेति* ॥ एवं वैश्वदेवीत्यादिसामानाधिकर. ण्यस्योक्तरीत्यैवोपपत्तेरित्यन्तग्रन्थेन भूषणे इत्यर्थः । *तवापी. - (१) श्लोकार्थस्तु-यत्र प्रकृतिजन्यबोधविशेष्यसमवेतः,प्रकृतिजा न्यबोधप्रकारः अपरो गुणो नास्ति तत्र उपपत्यन्तराभावात् प्रकृतिजन्यबोधप्रकारोपि स्वसमवेतः सम्बन्धस्त्वादिवाच्य आश्रित इति । (२) कचित् “जायन्ते इत्यादि-पोजनेत्यन्तः" पाठो नास्ति। . ४८
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy