________________
३७६ दर्पणसहिते वैयाकरणभूषणसारे वदन्तं मीमांसकम्मन्यं प्रत्याह
अत्राईजरतीयं स्याद् दर्शनान्तरगामिनाम् ॥ सिद्धान्ते तु स्थिते पक्षद्वयं त्वादिषु तच्छृणु॥ ५० ॥ ___ अत्र-भावप्रत्ययविषये । तथाहि । दामोदरत्वं, घटत्वमि. त्यादौ भावप्रत्ययस्य सम्बन्धानभिधायकत्वेन मीमांसकानां दण्डित्वमिसादिष्वपि तदभिधानं न स्यात् । प्रकृतिजन्यबोधे प्रकारः प्रकृत्यर्थसमवेतो हि तदुत्तरभावप्रत्ययेनाभिधीयते । अन्यथा, घटत्वमित्यत्र(१)द्रव्यत्वादेईण्डित्वमित्यादौ दण्डादे. श्च तद्वत्तरभावप्रत्ययवाच्यतापत्तेः । ..... ..
ति* ॥ इन्यादरित्यर्थः ॥ * सम्बन्धानभिधायकत्वेनेति* ॥ प्रकृति जन्यबोधे तस्याप्रकारत्वादिति भावः ॥ तद्-अभिधानम् ॥ सम्ब. न्धाभिधानम् ॥ *न स्यादिति* ॥ किन्तु दण्डस्यैवाऽभिधानं स्यान्न च तदभिधानमिष्टमिति भावः।
ननु प्रकृतिजन्यबोधविषयत्वे सति प्रकृत्यर्थवृत्तित्वं भावत्वम् । तश्च दण्डसम्बन्धस्याऽक्षतमिति भावप्रत्ययेन तदभिधानं भविष्य तीत्यत आह-*प्रकृतिजन्यबोध इति* ॥ उक्तार्थस्य भावत्वे तु दा. मोदरत्वमित्यादौ जातिगुणसम्बन्धस्याऽपि भावाऽर्थता प्रसज्ये. तेति भावः । क्रमेण दलद्वयव्यावर्त्यमाह-अन्यथेति* ॥ एकतरद. लमात्रोपादाने इत्यर्थः ॥ *तदुत्तरोत* ॥ घटदण्डिपदोत्तरेत्यर्थः । तथाच घटत्वमित्यादौ द्रव्यत्वस्यव त्वन्मते दण्डीत्यादी दण्डस. म्बन्धस्याप्यपदार्थतयाऽप्रकारत्वादभावत्वेन तस्य प्रत्ययार्थत्वस. म्भव इति भावः।
वस्तुतस्त्वन्त्यदलोपादानं व्यर्थम् । मतुबादीनां सम्बन्ध्यर्थकत. या दण्डीत्यादिवाक्यजन्यबोध सम्बन्धस्यैव प्रकारत्वेन दण्डादी. - (१) द्रव्यत्वादेरिति । तस्यापि घटसमवेतत्वात् । घटपदजन्यबोधे प्रकारत्वे तु नेति न घटपदोत्तरत्वादिना तदभिधानमिति ।