________________
स्वादिभावप्रत्ययार्थनिर्णयः ।
3
,
तान्तत्वेऽपि घटः शुक्ल इत्यभेदप्रत्ययाद (१) गुणस्यैव प्रकारत्वेन भानं जायते । तृतीये, सतो भावः सत्तेति । अत्र जातावेव प्रत्यय इति दिक् ॥ ४९ ॥
दण्डीत्यादौ प्रकृत्यर्थविशिष्टद्रव्यमात्र वाचकता तद्धितस्येति
·
तदुत्तरभावप्रत्ययेन सम्बन्धाभिधानं प्राप्नोतीति सूचितम् ॥ *भभेदप्रत्ययादिति । इदञ्च षष्ठ्यर्थविहितमतुपः सम्बन्धाऽर्थकत्वशङ्कानिरासाय तृतीयमित्यस्योदाहरणं यथेति शेषः ।
*सत इति* ॥ सच्छद्वजन्यबोधं शत्रर्थकर्त्रशे सत्तायाः प्रकारतया भानान्तदुत्तरभावप्रत्ययेनाऽपि सैवाभिधीयते इत्यर्थः । तथाचोतस्थलेषु भावप्रत्ययान्तात् सम्बन्धाभानादुक्तवाक्ये, अन्यत्रेत्युपात्तमिति भावः ।
ननु शुक्लत्वं सत्वमित्यादौ सतोऽपि शौक्ल्यादिसम्बन्धस्य भावप्रत्ययेनाऽनभिधानवद् राजपुरुष इत्यत्रापि तदनभिधानं स्यात् । तत्रापि राजादीनां पुरुषादिपदार्थे स्वत्वादिसम्ब न्धेन प्रकारतेत्यस्यापि वक्तुं शक्यत्वादित्यत आह * दिगि• ति* ॥ तदर्थस्तु निर्वक्ष्यभाणभावे, "तस्य भावः " ( पा० सू० ५ । १ । ११ । ) इति सूत्रेण त्वतलाक्ष्यां विधीयन्ते ॥ ४९ ॥
ननु जातित्वादिना जातावेव सम्बन्ध एवेति नियमः । तथाच यत्प्रकृतेर्यद्धर्मप्रकारकबोधः शास्त्रकृत्सम्मतः स एव धर्मस्त्वाद्यभि धेय इति रुत्यादिभिन्नप्रकृतेः कृतेत्यादितः सम्बन्धप्रकारकबोधस्य भाष्यसम्मत्तत्वात् तस्यैव भावप्रत्ययेनाऽभिधानमुचितमिति नोक्तेषु भावप्रत्ययस्य जात्याद्यभिधायकत्वमिति । 'प्रकृत्यर्थविशिष्टद्रव्यमाश्रचचन' इति पाठः । मात्रपदेन सम्बन्धव्यवच्छेदः ॥ *तद्धितस्ये.
(१) ननु वर्णरूपगुणगुणिनोः सर्वत्र अभेदप्रत्ययत्वे मतुपो लुग्विधानं व्यर्थमेव । अभदे मतुपोऽप्रात्परितिचेत् कुम्भस्य कृष्ण इत्यादिषु गुणगुणिनोर्भेदे व्यवहारस्यापि सत्वात् शुक्लवानित्यनिप्रयोगवारणाय तस्य वचनस्यावश्यकत्वात् ।