________________
३७४
दर्पणसहिते वैयाकरणभूषणसारे
तसम्बन्धे तु अर्थान्तरवृत्तिस्तद्धित उदाहार्यः ।
9
दामोदरत्वं कृष्णसर्पत्वमित्यादौ जातिविशेषवोधादाह - अन्यत्रेति । रूढेर भिन्नरूपादव्यभिचरित सम्बन्धेभ्यश्चान्यत्रेत्यर्थः । रूढिरुक्ता । द्वितीयं यथा शुक्लत्वम् । अत्र, " तदस्यास्त्यस्मिन् " ( पा० सू० ५ । २ । १४ ) इति मतुपो, “गुणवचनेभ्यो मतुपो लुगिष्टः " ( पा० वा० ) इति लुप्तत्वात् तद्धि
जात्यैव (१) भानेापगमेत्वित्यर्थः । तुशब्दसूचिताऽरुचिबाजं तु, "त. स्याऽपत्यम् " ( पा० सू० ४ । १ । ८२ ) इत्यनेन षष्ठीप्रकृत्यर्थोपवादिसम्बन्धेऽपत्ये ऽणादीनां विधानेन षष्ठ्यर्थसम्बन्धान्तर्भावेणैव तत्रैकार्थीभावस्येापगन्तव्यतया तत्रापत्याद्यंशे संसर्गस्यैव प्रकारतया तस्यैव तदुत्तरभावप्रत्ययार्थत्वेन जातेस्तद्वाच्यतासम्भवादिति ॥ *अर्थान्तरवृत्तिरिति* ॥ धात्वर्थघटितत्वार्थवृत्तिराक्षिकाद्यन्तर्गतष्ठगादिरित्यर्थः । तदर्थे कर्त्रादौ देवनादिरूपक्रियायाः क्रियाकारकभावसम्बन्धस्य प्रकारतया भानादित्याशयः ॥ *रूढेरिति ॥ क थमप्यवयवयोगादर्थविशेषप्रसिद्धादित्यर्थः ॥ *अभिन्नरूपादिति ॥ प्रत्ययान्तत्वेऽपि प्रत्ययलुका प्रकृतिसमानाऽऽकारात् “ शिष्यमाण लुप्यमानाऽर्थाभिधायि” इति न्यायेन प्रकृत्यर्थान्वितप्रत्ययार्थाभिधायिन इत्यर्थः । *अव्यभिचरितसम्बन्धेभ्य इति ॥ अव्यभिचरितो व्यक्तिनिष्ठाऽत्यन्ताभावाप्रतियोगी सम्बन्धः समवायात्मको यस्य जात्यादेस्तद्विशिष्टवाचकादित्यर्थः । नाऽतः पाकादिना ना. शे स्वाश्रयनिष्ठाऽभावप्रतियोगिनां तत्त्वम् ॥ * उक्तेति ॥ दामोदरत्वमित्यादौ जातिविशेषेण भानादिति प्रत्थेनेत्यर्थः ॥ द्वितीयं यथेति* ॥ अभिन्नरूपोदाहरणं यथेत्यर्थः । तद्धितान्तत्वेऽपीत्यपिना
(१) जात्येति । " गोत्रं च चरणैः सह" इत्यनेनापत्यत्वस्यापि जातित्वबोधनाज्जात्याभेदसम्बन्धस्य तिरोधानाजातिरेव तत्र प्रकारीभूतेति सैव त्वाद्यर्थ इति तात्पर्यम् ।