SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ - स्वादिभावप्रत्ययार्थनिर्णयः । । ২৩ ति(१)मीमांसकादीनां भ्रममपाकुर्वन्नाह-टीकायामितिः ॥ भतहरिणा महाभाष्यटीकायामित्यर्थः ॥ त्वतलोरिति भावप्रत्ययमात्रोपलक्षणम् । .. अयमर्थः । समासादौ शक्तिः कल्प्यमाना राजादिसम्बन्धविशिष्ट कल्प्यत इत्युक्तम् । तथाच तदुत्तरभावप्रत्ययः सम्बन्धं वदतीत्यर्थः(२) । एतदपि, भेदः संसर्ग: उभयं वेत्युक्तेषु भेदपक्षे न सम्भवतीत्यत आह-मतभेदेति ॥ पक्षभेदेनेत्यर्थः । एवञ्च, राजपुरुषत्वम् , औपगवत्वं, पक्तृत्वमियादौ स्व. स्वामिभावसम्बन्धः, उपग्वपत्यसंबन्धः अपत्यापत्यवत्सम्बन्धः, क्रियाकारकभावसम्बन्ध इत्यन्वयबोधः। औपमवादावव्यभिचरि - स्वात् तत्संग्रहार्थमाह-*त्वतलोरिति*॥ * भावप्रत्ययति॥ भावविहिततद्धितप्रत्ययेत्यर्थः । हरिवाक्यं विवृणोति-*अयमर्थ इत्यादि. ना* । इत्युकमित्यस्य समासशक्तिनिरूपणावसर इति शेषः ॥ *सम्बन्धमिति* ॥ उत्तरपदार्थे पूर्वपदार्थसम्बन्धस्यैव धर्मत्वेन भासमानत्वादिति भावः ॥ *भेदपक्ष इति* ॥ तत्पक्षेहि राजपुरुष इत्यत्राऽराजकीयभिन्नः पुरुष इति बोधेन पुरुषांशे राजसम्बन्धाभानादिति भावः(३) उपग्यपत्यसम्बन्धः इति* ॥ उपग्वपत्ययो. र्जन्यजनकभावात्मकः सम्बन्ध इत्यर्थः ॥ *अन्वयबोध इति* ॥ तत्तत्पदोत्तरभावप्रत्ययस्य तत्तत्सम्बन्धवाचकत्वादिति भावः॥ *अव्यभिचरितसम्बन्धेविति* ॥ अव्यभिचरितसम्बन्धरूप. (१) वार्तिकवचनमितीति। वार्तिकरूपं वचनं वार्तिकवचनं । वा. 'र्तिककारवचनमित्यर्थः। .. (२) वदतीत्यर्थ इति । शक्त्या बोधयतीत्यर्थः । ... (३) तत्पक्षे राजपुरुषत्वमित्यत्र स्वप्रत्ययस्य भेद एवार्थ इ. त्याशयः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy