SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३७२ दर्पणसहिते वैयाकरणभूषणसारे स्माकमपि (१) । परन्तु सामान्यधर्मे प्रमाणानां पक्षपाताच्छक्तता द्योतकता वा तदवच्छेदेनैव (२) कल्प्येति नैयायिकोक्तं प्रादिचाद्यो वैषम्यमयुक्तमित्यर्थः ॥ व्यापकत्वात् ( ३ ) = सामान्य - त्वात् । शक्तताया इत्युपलक्षणम् द्योतकताया वेस्यपि द्रष्टव्यम् ॥ ४८ ॥ ' इति वैयाकरणभूषणसारे निपातानां द्योतकत्वादिनिर्णयः ॥ ८ ॥ ॥ अथ त्वादिभावप्रत्ययार्थनिर्णयः ॥ भावप्रत्ययार्थमाह कृत्तद्धितसमासेभ्यो मतभेदनिबन्धनम् ॥ त्वतलोरर्थकथनं टीकायां हरिणा कृतम् ॥ ४९॥ "कृत्तद्धितसमासेभ्यः सम्बन्धाभिधानं भावप्रत्ययेनाऽन्यत्र रूढ्यभिन्नरूपाव्यभिचरितसम्बन्धेभ्यः" इति वार्त्तिकवचनमि निबन्धना कारकविभक्तिरेव स्यात् । किन्तु विशिष्टक्रियाजनितो यः सम्बन्धो विभक्त्यर्थ इति तद्द्योतकः । प्रादेशं विमाय लिखतीस्यर्थप्रतीतेरित्यधिकमन्यतोऽवधार्थ्यम् ॥ ४८ ॥ इति भूषणसारदर्पणे उपसर्गनिपातार्थनिरूपणम् ॥ ८ ॥ प्रक्रान्ते नामार्थनिरूपणे नामघटककृत्तद्धितानामर्थमुपोद्घातसत्या निरूपयिष्यन्नादौ प्रकृत्यर्थप्रकारत्वाद्भावप्रत्ययार्थनिरूपणमित्याशयेनाह #भावेति* ॥ व्यञ्ञादेरपि सम्बन्धरूपभावबोधक ( १ ) एवं वास्माकं मतेऽपि गौरवं नास्तीति भावः । (२) तदवच्छेदेनैवेति । निपातत्वावच्छेदेनैवेत्यर्थः । (३) व्यापकत्वादिति । प्रकृते व्यापकत्वं च उक्तानवच्छेदकत्वविशिष्टं स्वाभाववद्वृत्तित्वात्मकमधिकदेशे वृतित्वरूपं विवक्षितमिति भावः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy