________________
निपातार्थनिर्णयः। . ३१ यद्यप्युपसर्ग प्रक्रम्यस वाचको विशेषाणां सम्भवाद् द्योतकोऽपि च ।
इति हरिणा पक्षद्वयमविशेषेणोक्तम् । प्रन्थकृता च तदेवानुसू. तम् । तथापि,
क्वचित् सम्भविनो भेदाः केवलैरनिर्दर्शिताः ।
उपसर्गेण सम्बन्धे व्यज्यन्ते प्रसरादिना ॥१॥ . इति तदुक्तोपसंहृतिप-लोचनयोपसर्गाणां घोतकत्वमेवा. ऽवसीयते।
अत्रेदं बोध्यम् । उपर्सगत्वाद्यजानतोऽपि प्रजयतीत्यादौ प्रकृष्टजयबोधात् प्रत्वादिनैव तेषां द्योतकत्वम् । निपातानामपि च. स्वादिनैव वाचकता, यत्र न वाचकतामन्तरेण निर्वाहः । कचिद् द्योतकत्वमप्युक्तयुक्त्यनभ्युपगमे । यथा “शरैरुत्रैः” इत्यादौ । कचि. नोभयम् । यथा पादपूरणमात्रार्थके स्वादो। तदुक्तं: निपाता द्योतकाः केचित् पृथगर्थाभिधायिनः।
आगमा इव केऽपि स्युः सम्भूयाऽर्थस्य वाचकाः ॥ इति । केचिदित्युभयाऽन्वयी। न तूपसर्गत्वेन प्रादीनां, निपातत्वेन चादीनां द्योतकता वाचकता चेति स्थिते; उपसर्गत्वावच्छेदेन धो. तकता, न निपातत्वावच्छेदनेति विवाद: सिद्धान्तानालोचनमूलक एव । कर्मप्रवचनीयानां तु नोपसर्गवत् क्रियाविशेषकत्वं, किन्तु क्रियागतसम्बन्धविशेषकत्वम् । कर्म-क्रियां प्रोक्तवन्तः कर्मप्रवचनी. या इत्यन्वर्थसंज्ञानात् । अधि पर्योस्तु सुत्रारम्भसामर्थ्यादेव खा। 'जपमनुप्रावर्षत' इत्यत्र हेतुभूतजपनिसापितलक्ष्यलक्षणभावसम्बन्धस्य वर्षणक्रियानिष्ठस्यानुना द्योतनादेवमन्यत्रापि शेयम् । अत एब, न तेषामुपसर्गत्वम् । क्रियागतविशेषद्योतको छुपसर्गः। उक्त. श्व हरिणाकियाया द्योतको नाऽयं सम्बन्धस्य न वाचकः। नाऽपि क्रियापदाऽऽक्षेपी सम्बन्धस्य तु भेदकः॥ इति ।
तदर्थस्तु-कर्मप्रवचनीयसंझकोऽन्वादिः, प्रजयतीत्यादावुपसर्ग: वन क्रियागतविशेषस्य द्योतकः। विभक्त्यैवोक्तत्वाचन सम्बन्ध स्य वाचकः । नाऽपि, 'प्रादेशं विलिखति' इत्यादी विशब्दवत् क्रि. याक्षेपकः । तत्र विना मानक्रियाक्षेपात । तथा सति तत्तत्क्रिया