________________
देर्पणसहिते वैयाकरणभूषणसारे
तत्र विशेष्यगतैवस्थले, 'पार्थ एव धनुर्द्धर' इत्यादावन्यतादात्म्यव्यवच्छेदोऽर्थः । अन्यत्वं च समभिव्याहतपदार्थापेक्षिकम् । तथाच पा. र्थान्यतादात्म्याभाववद्धनुर्द्धराभिन्नः पार्थ इति बोधः । पृथिवीसम. मेतश्च गन्ध इत्यत्र पृथिव्यन्यसमवेतत्वाभाववान् पृथिवीसमवेतश्च गन्ध इति बोधात्ताशबोधे सप्तमीरूपविशेषणविभक्तिसमभिव्याहारोपि नियामकः। अत्रभावान्वयबोधानुपगमे पृथिव्यामेवाकाशमित्यपि प्रसज्येत । एवश्ववकारणान्ययोगव्यवच्छेदबोधे विशेष्यवाच. कपदविशेषणवाचकसप्तम्यन्तान्यतराव्यवहितोत्तरैवशब्दा हेतुः । विशेषणसङ्गतैवस्थलेऽयोगव्यवच्छेदः । 'शङ्खः पाण्डुर एवं' इत्यादौ शकत्वावच्छेदेन पाण्डुरवत्त्वसमवायाभावव्यवच्छेदबोधात् । 'नीलं सरोजं भवत्येव' इत्यादौ क्रिशसङ्गतैवस्थलेऽत्यन्तायोगव्यव. ज्छेदोऽर्थः॥
अत्र केचित् । अयोगे आत्यन्तिकत्वं व्यवच्छियते। तश्चान्वाय. तावच्छेदकत्वम् । खण्डशश्च तत्र शक्तिः। तथाचोक्तस्थले सरोज निष्ठाभावप्रतियोगिनीलभवनाभाव इति बोध इति वदन्ति ॥ __ वस्तुतस्तु अन्ययोगव्यवच्छेदाऽयोगव्यवच्छेदयोरवैवकारस्य शक्तिः । अन्वयितावच्छेदकावच्छेदेनायोगव्यवच्छेदबोधे ग्रहणाऽध्य. यनाऽर्थकधातुसमभिव्याहारस्यापि नियामकत्वाज्ज्ञानमर्थ गृह्णात्येवेतिवन्नशानं रजतं गृहात्यवेत्यादिप्रयोगः। क्रियान्तरसमभिव्याहा. रे तु प्रायः सामानाधिकरण्येन तद्भानम्। इत्थञ्चाऽन्वयितावच्छेदकसामानाधिकरण्येनान्ययोगव्यवच्छेदोऽत्यन्तायोगव्यवच्छेदोऽन्वयितावच्छेदेन त्वयोगव्यवच्छेद इति व्यवह्रियते। विस्तरस्त्वन्यतोऽवधायः॥ ___ 'केवभोक्ष्यसे' इत्यादावसम्भावनाऽपि तदर्थः। एवमन्येषामपि सार्थकानां निपातनामर्था ऊह्याः । वैयाकरणमते त्वेवकारस्य वाच. कत्वासम्भवादवधारणात्मकज्ञानविशेषद्योतकत्वमेव । स च समभिव्याहतपदार्थानुरोधादनेकविधः। यथा, ज्ञानमर्थ गृह्वात्येवेत्यत्राव. च्छेदकावच्छेदेनाऽर्थग्रहणाभावानधिकरणज्ञानप्रकारकज्ञानविषयो ज्ञानकर्तकमर्थककं ग्रहणमिति बोधादुक्तपदार्थघटितः सः । पर. न्त्वनेकधात्वादीनां तत्तदर्थे वृत्तिकल्पनापेक्षयैवकारस्यैव सोचिते. त्यन्ये।