SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ निपातार्थनिर्णयः ३६९ मान्यव्याप्तौ घटादिदृष्टान्तः । नचानन्यलभ्यत्वमुपाधिः । तस्य वाच्यत्वरूपसाध्यव्यापकत्वात् कर्त्रादौ आख्यातान्वयव्यतिरेकानुविधायिशाब्दधीविषये साधनाsoयापकत्वादिति वाच्यम् । उक्तहेतुघटकशाब्दबुद्धे राक्षे पाद्यजन्यत्वेन विशेषणेनानन्यलभ्यत्वस्य साधनव्यापकत्वेनोपाधित्वायोगात् । नच स्वरूपाऽसिद्धिः । धातोरेव प्रकृष्टजयाऽर्थकत्वेनोपसर्गस्य तात्पर्यमात्रग्राहकत्वादिति वाच्यम् । धातोः प्रकृष्टजयार्थकत्वस्य ग्रन्थकृतैव खण्डनात् । नापि लक्ष्यता तस्य । प्रोत्तरत्वादेर्लक्षणतावच्छेदककोटिप्रवेशे गौरवात् । तस्माजयत्यादिधातोः शक्यतावच्छेदकं प्रकर्षत्वादिकं तूपसर्गस्येति वाच्यम् । तथाच क हेत्वसिद्धिः । किञ्चार्थस्य धातुलक्ष्यत्वे जिपूर्वप्रत्वेनापि विनिगमनाविरहालक्षकतावच्छेदककोटौ निवेशापत्तिः । नाऽपि तदर्थस्य धात्वर्थेन साकमनन्वयप्रसङ्गः । निपातातिरिक्तत्वस्योक्तव्युत्पत्तौ विशेषणात् । एवञ्च 'प्रतिष्ठत' इत्यादौ धातोर्गत्यभावोऽर्थः । तदभावश्चोपसर्गार्थः । तथाच ततो गत्यभावाभाववानिति धीः, गमनत्वप्रकारकबोधस्तूत्तरकालिको मानस एवेति चेन्न । 'प्रत्ययानाम्' इति व्युत्पत्तेजगरूकतया गमनाभाववानिति बोधस्यापि गगनकुसुमायमानत्वात् ॥ किञ्च, तथा बोधाङ्गीकारे तादृशस्थले प्रादीनामुपसर्गत्वमपि दुर्घटम् | क्रियाया अविशेषकत्वात् । क्रिया ह्यत्रोपसर्गाभावविशेषिका, न तूपसर्गार्थी क्रियाभावविशेषकः । स्वादीनां द्योतकताव्यवस्थापनोक्तरीत्याप्युपसर्गाणां साध्वसेयेति । निपातानां तु केषाञ्चि द् वाचकत्वम् | तत्र नञर्थो निरूपितः । चार्थश्च समुच्चयादिभेदेन चतुर्विध इति, "चार्थे द्वन्द्वः" ( पा० सू० २ । ८ । ८९ ) इत्यत्राकरेषु यक्तमेव । एवकारस्य ४७ इषार्थस्तु सादृश्यम् । तच्च तद्भिन्नत्वे सति तद्वतधर्मवत्त्वम् । यत्तु सादृश्यं न भेदघटितमिति । तन्न । तावतापि, "नञिवयुक्तम्” इति परिभाषणेन तस्येवार्थत्वानपायात । तद्द्बोधकानुयोगिप्रतियो गिवाचकपदयोः समानविभक्तिकत्वं नियामकम् । नातश्चन्द्र इव मुखमित्यर्थे चन्द्रेणेव मुखमिति साधु । त्वन्ययोगव्यवच्छेदोऽत्यन्तायोगव्यवच्छेदश्चार्थः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy