SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ . दर्पणसहिते वैयाकरणभूषणसारे निष्प्रमाणत्वात् । किञ्च कार्यतावच्छेदकत्वादीनां जातित्वसाधकानां तत्राभावादपि न सा जातिः । शक्यतावच्छेदकत्वं तु न तत्साध. कम् । अभावत्वविभुत्वादीनामपि जातित्वापत्तेः। अत एव गुणदी. धितो गुणत्वस्य जातित्वं दीधितिकृता खण्डितमत आह * उपाधि वैति* ॥ सामान्य व्यापकधर्म इत्यर्थः। ____अयं भावः । उपसर्गेषुभयमतेऽपि द्योतकत्वे पाचकत्वे पा कल्पनीये तमिवृत्तितयोपस्थितोपसर्गत्वनिपातत्वयोरुभयोर्धमयो. मध्ये द्योतकत्वादिकमुपसर्गत्वावच्छेदेन कल्प्यनुत निपातत्वाव. च्छेदनति संशये अवच्छेदकनिर्णिनीषायां व्यापकतया निपातत्वावच्छेदेनैव तत् कल्प्यते । साहकलाघवादत एवंश्वरानुमाने कर्तृ. जन्यत्वं घटत्वादिनावच्छिद्यते, उत कार्यत्वेनेत्यवच्छेदक जिज्ञासायामुक्तलाधवात् कार्यत्वमेव तदवच्छेदकं, न तु घटत्वादिकमिति न्यायसिद्धान्त इति । अत्र वदन्ति । प्रमाणानां सामान्यधर्मस्यावच्छेदकतायां तत्र पक्षपातो, यत्र च बहूनां धर्माणामवच्छेदकत्वकल्पनाप्रयुक्तं गोरवम् । यथा कर्तृजन्यत्वानुमाने कृतिजन्यतायां घटत्वाद्यपेक्षया कार्यात्व. स्य । यत्र तु विशेषोऽप्येक एव तत्रोक्तयुक्तिविरहात् तस्यैवावच्छेदकत्वम् । अत एव व्यापारस्याऽधिकसंग्राहकत्वेऽपि कृतित्वस्यैवा. ख्यात शक्यतावच्छेदकत्वं, स्वीकृतं च मीमांसकैरपि । द्रव्यप्रत्यक्षत्वं विहाय द्रव्यचाक्षुषत्वस्येव रूपकार्यतावच्छेदकत्वम् । प्रकृते व्यापकत्वान्निपातत्वाधिकसंग्राहकत्वेऽपि व्यापकोपसर्गत्वस्याप्येकत्वेन तस्यैवावच्छेदकत्वमुचितम् । निपातत्वस्याऽद्योतकेऽवाचके पादपू. रणमात्राऽर्थक वृत्तित्वेनातिप्रसक्तत्वात् । 'प्रादयो धोतकाः, उपसर्गत्वात्' इत्यनुमानाञ्च । नच प्रादीनां द्योतकता निपातत्वलिङ्गेनैव सेत्स्यतीति वाच्यम् । तस्योपसर्गत्वरूपोपाधिमत्तया तदसाधकत्वात् । नच चेष्टादौ सा. ध्याऽव्यापकत्वान्न तस्योपाधित्वमिति वाच्यम् । शुद्धसाध्याव्याप. कत्वसम्भवात् । अस्ति हि निपातत्वावच्छिन्नं द्योतकत्वं यत्र तत्रोप. सर्गत्वम् । यत्र निपातत्वं नादौ तत्र तदभावाद् । ननु प्रकर्षाद्य. र्थः प्रादिवाच्यः। तदन्वयव्यतिरेकानुविधायिशाब्दधीविषयत्वात् । यो यदन्वयव्यतिरेकानुविधामपादधीविषयः स तद्वाच्य इति सा.
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy