________________
. निपातार्थनिर्णयः। .. इति वाक्यपदीयं सङ्गच्छते । दर्शनान्तररीत्या वाचकत्वमेव घोतकत्वमेवेति नियमस्तु न युक्त इति ध्वनयन्नाह मत. मेव न इति ॥ ४७॥ . पर्यवसितमुपसंहरनाहनिपातत्वं परेषां यत्तदस्माकमिति स्थितिः ॥ व्यापकत्वाच्छक्ततायास्त्ववच्छेदकमिष्यते ॥ ४८ ॥
परेषां यन्निपातत्वम्-असचार्थकत्वे सति चाऽऽदिगणपठितत्वं शक्तिसम्बन्धेन निपातपदवत्वञ्चोपाधिर्वा जातिर्वा तदेवा.
मित्यादिः ॥ *मतमेवेतीति* ॥ वा अथवाऽन्वयव्यतिरेकवतां, नि. पातनां वाचकत्वं युक्तम् । अस्माकं मते परषां यदेकस्य वाचकत्व. मपरस्य द्योतकत्वमिति मतं,तदव तु न युक्तमिति मूलयोजना ॥४॥
ननु "चादयोऽसत्त्वे" (पा० सू०१।४।५७) इत्यत्राऽसत्व इति प्रसज्ज्यप्रतिषेधाश्रयणेऽसमर्थसमासापत्तिर्वाक्यभेदापत्तिश्चेति पर्यु. दास एवाश्रयणीयः । तथाचोक्तलक्षणस्याश्रयणेऽनर्थके तस्मिन्नव्याप्तिः । तावदन्यतमत्वस्य निवेशे तु गौरवमत आह-शक्तिसम्बन्धेनेति* ॥ तस्य लक्ष्यताऽवच्छेदकमभिप्रेत्याह-*जातिरिति* ॥ नि. पातपदशक्यतावच्छेदकतया च तत्सिद्धिरिति भावः ॥
ननु हत्वादिना साङ्क-न निपातत्वं जातिः । तथाहि । निपा. तत्वाभाववति हत्वं, धात्वादिहकारे हत्वाभाववति निपातत्वं, निपा. तात्मकचकारे तयोरेकत्र हकारे समावेशातू । तददूषकताबीजं तु. स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्बोभयसम्बन्धेन जा. तिविशिष्टजातित्वावच्छेदेन स्वसमानाधिकरणाभावाप्रतियोगित्वनिः यमभङ्ग एव । निरुपाधिसहचारग्रहश्च ताहशनियमेऽनुकूलस्तर्कः । अन्यथा तन्मात्रबलप्रवृत्तानां 'सत्तावान् जातेः' इत्याधनुमानानां विलयप्रसङ्गात् । अत एव भूतत्व न जातिः', इतिसाम्प्रदायिकाः।
हत्वादिव्याप्यनिपातत्वस्य नानात्वाभ्युपगमेन साङ्कर्यस्य प. रिहारेऽपि सकलचादिसाधारण्याभावेनाननुगततयातस्यैवासिद्धि