________________
३६६ दर्पणसहिते वैयाकरणभूषणसारे शब्दात् समुच्चयाबोधाच्चकारश्रवणे तद्बोधाच्चकार एव तद्वाचको न द्योतकः । किञ्च द्योतकत्वे पदान्तराणां तत्र शक्तिः कल्प्या, चकारादे?तकत्वशक्तिश्च कल्प्येति गौरवं स्यदिति हि समुच्चयाधिकरणे स्थितम् । तदपि न युक्तमिति भावः । ___ तथाहि । अन्वयव्यतिरेको तात्पर्य ग्राहकत्वेनाऽप्युपयुक्तौ(१) । घटादिपदानामेव समुचिते लक्षणा, तात्पर्य ग्राहकः प्रकरणादिवच्चादिरिति स्वीकारान्न शक्तिद्वयकल्पनापि । अ. स्माकं लक्षणाग्रहदशायां बोधात्तत्तत्कार्यकारणभाव आवश्य. कः । एवं शक्तिग्रहस्यापीति पक्षद्वयेऽपि कल्प्यान्तराभावेन गौ. रवाभावादुभयमपि(२) युक्तमित्यभिमतम् । अत एव
"स वाचको विशेषाणां सम्भवाद् द्योतकोऽपि वा ।
वक्ष्यमाणास्वरसादाह-*किश्चेति * ॥ प्रकरणादिवदित्यनेन धो. तकताया वृत्तित्वाभावो ध्वन्यते ॥ *अस्माकमिति* ॥ पक्षद्वयाभ्यु. पगन्तृणामित्यर्थः ॥ *कार्यकारणभाव इति* ॥ समुच्चितघटादि. शाब्दबोधे घटपदनिरूपितलक्षणाशानत्वेन हेतुतेत्याकारक इत्यर्थः ॥ *शक्तिग्रहस्यापीति * ॥ घटाद्यर्थबोधे घटशक्तिशानस्य समुच्चयादि. बोधे तच्छक्तिज्ञानस्य हेतुतेत्याकारकः कार्यकारणभावोऽप्याव. श्यक इत्यर्थः॥
*कल्प्यान्तराभावेनेति ॥ द्योतकतापक्षे वाचकतापक्षेऽपि तत्त. स्पक्षक्लत्पा ऽधिककल्पनीयाऽभावेनेत्यर्थः ॥ *अत एवेति* ॥ कल्प्यपक्षद्वये युक्तिसाम्यादेवेत्यर्थः ॥ *स वाचक इति* ॥ उपसर्ग प्रक्र म्येदं 'प्रतिष्ठत' इत्यत्र "गतिनिवृत्तिवाचकः स्थाधातुरुपसर्गस्तद. भावरूपगतिवाचक" इति पुञ्जराजेन तदर्थस्य कथनात् । वाचक त्वमेवेत्यस्य निपातानामित्यादिरेवं, द्योतकत्वमेवेत्यस्योपसर्गाणा.
(१) तथा चान्वयव्यतिरेकयोरन्यथा सिद्धतया न शक्तिमाह. कतेति भावः।
(२) वाचकत्वद्योतकत्वोभयमपीत्यर्थः।