________________
निपातार्थनिर्णयः
३६६ निपातानां वाचकत्वमन्वयव्यतिरेकयोः ॥
युक्तं वा न तु तद्युक्तं परेषां मतमेव नः(१)॥४७॥ । एवञ्च धात्वर्थप्रातिपदिकार्थयोर्भेदेनान्वयबोधो न व्युत्पम इति निपातातिरिक्तविषयः । समानाधिकरणप्रातिपदि. कार्थयोरभेदान्वय इत्यपि तथ्यगत्या कल्पनीयमिति भावः ॥ न स्विति ॥ नैयायिकोक्तं प्रादिचायोर्वेषम्यमित्यर्थः ।
यत्तु सर्वेषां निपाताना वाचकत्वेऽर्थवत्सूत्रेणैव तेषां प्रा. तिपदिकत्वसम्भवाद्, "निपातस्यानर्थकस्य"इतिविधिवैयर्यम् । सर्वेषां द्योतकत्वे "चानर्थकस्य" इति व्यर्थम् । तथाच केचिद् द्योतकाः, केचिद्वाचका इत्यभ्युपेयमिति । तन्न । एवं हि चादयो द्योतकाः प्रादयो वाचया इति वैपरीत्यावारणात् । सर्वथानर्थकानां पादपूरणमात्रार्थमुपात्तानां संग्रहा. य वार्तिकारम्भस्य कैयटादौ स्पष्टत्वात् । तस्य प्रत्याख्यात. त्वाच्च । · परेषामिति बहुवचनं मीमांसकसंग्रहाय(२) । केवलक्ष
पस्थितेहेतुतायां "नामाऽर्थयोर्भेदेनाऽन्वय"इति व्युत्पत्तिसिद्ध इत्यादेरेवं "समानाधिकरणनामार्थयो" इति व्युत्पत्तरभेदान्वयापत्तिश्चे. त्यत आह-*एवञ्चति ॥ *विधिवैयर्थ्यमिति * ॥ ताशवार्तिकेन प्रातिपदिकसंज्ञाविधानवैयर्थ्यमित्यर्थः ॥ *अनर्थकस्यति* । *व्यर्थमिति* ॥ “कृत्तद्धित" (पा० सू०१।२।४६) इत्यत्र चशब्देनैव तद. र्थस्य समुच्चितत्वादिति भावः ।
(१) कारिकार्थस्तु-अन्वयव्यतिरेकाभ्यां तिङादीनां वाचकत्वघन्निपातानामपि वाचकत्वं युक्तम् । परेषां नैयायिकानां यत् प्रादिचा.. घोषम्यरूपं मतं नः अस्माकं मते न तयुक्तमिति । .
(२) मीमांसकानां भाष्यकारादिभेदेन नानात्वादहुबचनमिति
भावः।