________________
३६४ दर्पणसहिते वैयाकरणभूषणसारे थकन्वं, तेषां तात्पर्य ग्राहकतयैवोपयोगादित्युक्तरीत्येत्यर्थः ॥ *तिडादेः स्यादिति ॥ तत्रान्वयव्यतिरेकाभ्यां कादिवाचकत्वावधारणे तु प्रादीनामपि वाचकत्वविधृतिरिति भावः । परन्तु "अजर्घा अचकात्" इत्यादी धातुमात्रात् कादिबोधेन तिङां द्योतकत्वे इष्टवापत्तिः। .. नच तत्र लुप्तविभक्तिस्मरणाद् बोधः । लोपमजानतोऽपि बो. धात् प्रत्यलक्षणस्य लोपफलत्वं वदता भाष्यकृता लुप्तविभक्तिस्मरणाद् बांधस्यानभ्युपगमाश्च । यत्र प्रत्ययस्य वाचकता तत्रैव "प्र. कृतिप्रत्ययार्थयो"इति नियमावकाशो यथा 'पाचक' इत्यादिकृदन्ते । "लः कर्मणि" (पा० सू०३।४। ६९ ) इत्यादौ कर्मविशिष्टकर्तृवि. षयाद्धातोरित्यर्थान्न तद्विरोधः । “भावे" इत्यस्य सर्वैस्तथैव व्याख्यानात् ।
नच सर्वत्रव धातोर्भावनाविषयत्वात्तत्रैव लकारः स्यादितिश. यम् । भावविषयादित्यस्य केवलक्रियामात्रबोधकादित्यर्थेनादोषात्। अत एव, "भावकर्मणोः",(पा० सू०१।३।१३)" शेषात् कर्तरि परस्मैप. दम्"(पा० सू०१।३।७९)"द्वयेकयोः"(पा० सू०१४२२) इत्यादीनां निय. म इति भाष्यकृदुक्तिसङ्गतिः । तेषामनिर्दिष्टार्थत्वेन "अनिर्दिष्टार्थाः स्वार्थे भवन्ति" इति न्यायेन सर्वत्र सिद्धत्वादित्याहुः॥
तच्चिन्त्यम् । व्यतिसे इत्यादी धातुं विनापि कर्तृबोधनाद्ययुतेः शैथिल्यात् । तुल्ययुक्त्या सुपामपि द्योतकतापत्तेीतोड़िवचनाघनुपपत्तेश्च । प्रत्ययलक्षणस्य लोपफलत्वेऽपि लुप्तविभक्तिस्मर. णजन्यबोधस्य फलत्वाभ्युपगमे बाधकाभावाच्च । स्वोत्तरतिङवाध्यकत्रीदिगतद्वित्वारोपेण द्विवचनादिरिति स्वोक्तविरोधाश्च ।
भवदुक्तरीत्यैव कविशिष्टभावनावाचकात् कर्मविशिष्टभाव. नावाचकात केवलभावनावाचकाच्च धातोर्लकारा भवन्तीत्यर्थे, लः कर्मणीत्यर्थपर्यवसानेन, 'अनिर्दिष्टार्थी' इति न्यायेनाऽपि तत्तत्का. रकादिविशिष्टभावनाऽर्थकानां तिङ सर्वत्र सिद्धघसम्भवेन निय. मस्यान्यथैव सङ्गमनीयत्वादित्यन्यत्र विस्तरः।
ननु निपाताना वाचकत्वे, घटो न पट इत्यादी घटादेः प्रतियोगितया नअर्थाभावे तस्य चाश्रयतया घटादावन्वयोऽनुपपन्नः । भेदसम्बन्धन प्रातिपदिकार्थप्रकारकबोधे विशेष्यतया प्रत्ययजन्यो