SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ निपातार्थनिर्णयः। अत्रोपसर्गपदं निपातोपलक्षणम् । धातुपदं पदान्तरस्येति बोध्यम् ॥ ४६॥ नन्वन्वयव्यतिरेकाभ्यां निपातानां तत्तदर्थवाचकत्वमेव यु. क्तम् । बोधकतारूपशक्तेरवाधात् । किञ्चोक्तरीत्या पचतीत्यादौ धातोरेवे कर्तृविशिष्टभावनायां लक्षणास्तु, तात्पर्यग्राहकत्वमात्रं तिङादेः (१)स्यादित्यरुचेः पक्षान्तरमाह-- विचायत इत्यर्थः। . यद्यपि स्वाद्यन्तत्वनिबन्धनं नामत्वमुपसर्गनिपातयोरपीति तयोः पार्थक्येन निर्देशोऽनुचितः। तथापि लिङ्गसङ्ख्यानिष्ठप्रकार• तानिरूपितविशेष्यताशाल्यर्थकत्वरूपपारिभाषिकनामकत्वमादाय तथोक्तम् । उपसर्गाणां निपातत्वेऽपि तदुपादानं तु ब्राह्मणवसिष्ठन्यायेनेति बोध्यम् । ननूपसर्गेण धात्वर्थ इत्यत्र निपातत्वव्याप्योपसर्गत्वेन प्रादी. नामुपादानात् कथं तच्चादीनां द्योतकत्वे उपष्टम्भकमत आह *उपसर्गपदमिति* ॥ *पदान्तरेति* ॥ चन्द्र इव मुखमित्यादावर्थ. वत्त्वेन चन्द्रादिनामोपलक्षकमित्यर्थः। एवञ्च न तबलान्निपातानां वाचकत्वमिति भ्रमितव्यमिति भावः॥४६॥ . इदानी वाचकतापक्षं परिष्करोति *नन्विति ॥ *अन्वयव्यतिरेकाभ्यामिति ॥ चन्द्र इव मुखमित्यादाविवादिनिपातसत्त्वे साहश्याद्यर्थप्रतीतेस्तदसत्त्वे तदप्रतीतेश्च निपातानां घटादिपदवद्वाचकत्वमेघ युक्तमित्यर्थः ॥ नन्विच्छादिरूपशक्तेरभावात् कथं तेषां वा. चकत्वमत आह *बोधकतारूपेति ॥ तथाच तदर्थबोधकत्वमेव तद्वाचकत्वमिति तेषामपि घटादिपदवद्वाचकत्वमेवेत्यर्थः ॥ . नन्वन्वयव्यतिरेकयोस्तदर्थस्तात्पर्यग्रहे उपयोगस्य प्रागभिहि. तत्वान्न तयोर्वाचकताप्रयोजकत्वमत आह-*किञ्चति ॥ *उ. तरीत्येति* ॥ अनन्यलभ्यस्यैव शब्दार्थतया प्रजयतीत्यादी प्रकृष्टजयस्थ लक्षणया जिधातोरेवोपस्थितौ न प्रादीनां प्रकर्षाद्य. (१) आदिपदम्-कृत्सनादिपरिग्राहकम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy