________________
३६२
दर्पणसहिते वैयाकरणभूषणसारे द्वा प्रातिपदिकत्वम् । “कृत्तद्धितसमासाच" (पा० सू० १ । २। ४६ ) इत्यनुक्तसमुच्चयार्थकचकारेण निपातानां संग्रह इति वा बोध्यम् । तस्माद् युक्तं निपातानां द्योतकत्वम् । उक्तश्चाकृत्यधिकरणवार्तिके
चतुबिधे पदे चात्र द्विविधस्यार्थनिर्णयः । क्रियते संशयोत्पत्तेनॊपसर्गनिपातयोः ॥ तयोरर्थाभिधाने हि व्यापारो नैव विद्यते । यदर्थद्योतको तौ तु वाचकः स विचार्यते ।। इति । उपसर्गेण धात्वार्थो बलादन्यः (१) प्रतीयते । प्रहाराहारसंहारविहारपरिहारवदिति ॥
तिकप्रत्याख्याने(२)त्वाह-*कृतद्धितेति ॥ *सह इति* ॥ अनर्थ. कस्थाऽपि निपातस्य प्रातिपदिकत्वमित्यर्थः॥ उपसंहरति-त. स्मादिति* ॥ एतत्कल्पे मीमांसकसम्मतिमाह-*उक्तश्चेति ॥ *चतुर्विध इति* ॥ नामाख्यातोपसर्गनिपातभेदेन चतुःप्रकार इत्य.
र्थः ॥ पदे-सुप्तिङन्तरूपे ॥ द्विविधस्य नामाख्यातस्वरूपस्य । अर्थनिरूपणे हेतुमाह-*संशयोत्पत्तेरिति* ॥
नामार्थो जातिः, किं वा व्यक्तिः, धात्वर्थो व्यापार उत फलं, कि वोभयमिति सन्दहे तन्निरूपणस्योचित्वादिति भावः ॥ तयोःनिपातोपसर्गयोः॥ व्यापारः-शक्तिलक्षणान्यतररूपः ॥ तौ-उपस. निपातौ ॥ यदर्थद्योतकौ-यदर्थविषयकतात्पर्यग्रहजनको ॥ सः-ना. माख्यातात्मकः शब्दः ॥ तस्य तिङ्कृत्तद्धितघटितत्वात्तदर्थोऽपि
(१) अन्यति । उपात्तनिर्दिष्टरूपातिरिक्तरूपावच्छिन्नः। तेन प्र. जयतीत्यत्र प्रतीयमानप्रकृष्टजयस्य शुद्धजयत्वेपि न क्षतिः।।
(२) तत्प्रकारस्तु अधिपोरर्थवत्वाभावात क्रियया सह यो. गस्याप्राप्त्या गत्युपसर्गसंशाप्राप्त्यभावात् तनिवृत्यर्थ क्रियमाणं "अधिपरी अनर्थको” इति कर्मप्रवचनीयसंज्ञाविधायकं सूत्रं व्यर्थी. भूय अनर्थकनिपातानामर्थवत्प्रयुक्तकार्यशापकमिति ।