SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ .:. . निपातार्थनिर्णया।... : ३६१ - ननु स्वन्मते अंब्राह्मण इत्यादौ तत्पुरुषलक्षणाव्याप्त्यापत्तिः पूर्वपदस्यानर्थकत्वेनोत्तरपदार्थवाधान्याभावात् । उपसर्गस्यार्थववाभावेन प्रातिपदिकत्वाभावाद्विभक्तिश्च ततो न स्यादित्यत आहनञ् समासे चापरस्य द्यात्यं प्रत्येव मुख्यता ॥ द्योत्यमेवार्थमादाय जायन्ते नामतः सुपः ॥ ४६॥ नममासादौ योत्तरपदार्थप्रधानता सा द्योत्यमर्थमादायै. च(१) । तमेवार्थमादायार्थवचात् प्रातिपदिकत्वमित्यर्थः । वस्तुतः, "अव्ययादाप्सुप" (पा० सू० २।४।८२) इतिज्ञापकात् सुबुत्पत्तिः । “निपातस्यानर्थकस्य" इतिवार्तिका *उत्तरपदार्थप्राधान्याभावादिति* ॥ प्राधान्यस्यान्यनिरूपितार्थत्वमित्यर्थः ॥ *तमेवेति* ॥ धोत्यमेवेत्यर्थः॥ *अर्थवत्त्वादिति ॥ अयं भावः । द्योतकताया अपि वृत्तित्वेन तयाऽर्थवत्त्वस्य द्योतकेऽप्यक्षतत्वान्न तन्निबन्धनप्रातिपदिकसंज्ञानुपपत्तिः । न हि शक्तिलक्षणा. न्यतरदेवार्थोपस्थापकमिति वचनमस्तीति । ननु शब्दादुपस्थितसामान्यस्य विशेषे पर्यवसायकत्वं धोत. कत्वं, न तु तदुपस्थापकत्वमेवेति न तदादायार्थवत्त्वसम्भवोऽत आह *वस्तुतस्त्विति * ॥ अज्ञापकादिति* ॥ द्योतकतावादे तेषा. मनर्थकत्वादेव सुबभावे लुम्विधानमनर्थके मदुक्तकार्थे शापक. मिति भावः॥ - ननु स्वरादीनां सत्ववचनानामपि सत्त्वात्तद्विहितसुब्लुग्विधाने. न चरितार्थस्य च न ज्ञापकत्वमत आह-*निपातस्येति* ॥ तद्वा. (१) द्योत्यार्थमादायवेति । उत्तरपदार्थप्राधान्यं नाम-इतरपदार्थ. निष्ठविशेषेणतानिरूपितविशेष्यताशालिबोधजनकत्वम् । तत्र इतरपदार्थपदेन यथा वाच्य लक्ष्यार्थयाग्रहणं तथा धोत्याथस्यापीति ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy