SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ दपण ३६० दर्पणसहिते वैयाकरणभूषणसारे सुपांश्रवणश्चेयर्थः । चकारादुरपदोत्तरतृतीयानन्वयः समुच्चीयते ॥ ... इत्यादावित्यादिपदाद्, “वागर्थाविव सम्पृक्तौ” “पार्वतीपरमेश्वरौ वन्दे" इत्यत्र वागर्थयोर्वदिकर्मत्वाभावात्तदुत्तरद्वि. तीयाया अनन्वयः । इवार्थस्य कर्मत्वान्वयबोधासम्भवश्व सं. गृह्यते । ... यदि च विशेषणविभक्तिरभेदार्था, साधुत्वमात्रार्था वा तदापि इक्शब्दस्य वाचकत्वेऽनन्वय एव । उम्र सदृशशराणां स. मासाधिकरणपदोपस्थाप्यतया(१)भेदेनान्वयायोगात् । बाधादभेदेनापि न सः । न ह्युस्राभिन्नसदृशाभिन्नः शर इत्यर्थो द्रष्टव्यः ॥ ४५ ॥ णकरणत्वस्य तत्राभावात् । अस्मन्मते तूरसदृशरूपोस्रार्थस्य कर• णत्वान्न तदनुपपत्तिरिति भावः । तदुत्तरं सुव्यतिरिक्तप्रत्ययश्रवण. त्वापाद्यत्वासम्भवेन समुच्चेयासम्भवमाशङ्कय चकारस्यान्यत्राप्रक. र्ष इत्याह-*सुपां श्रवणश्चात* ॥ चकारसमुच्चयं दर्शयति * उम्र. पदोत्तरतृतीयेति ॥ तृतीयायास्तदर्थस्य अनन्वयमेव स्पष्टयति *उस्रसदृशेत्यादि* ॥ सामानाधिकरण्यं नामार्थयोरित्युक्तव्युत्प. त्तेरिति भावः। ननु तबभेदान्वयस्तत्र स्यादत आह *बाधादिति* ॥ सा. दृश्यस्य भेदघटितत्वादिति भावः । अत्रेदं बोध्यम् । वाचकतावादिना सादृश्यादिबोधने पर्युदासनभिवानुयोगप्रतियोगिवाचकपदयोः समानविभक्तिकत्वस्य नियामकताया अभ्युपगमेन प्रकृत उ. स्रनिरूपितसादृश्याश्रयशरकरणकोद्धरणबोधः सूपपादः। भेदाभेदयोर्विकल्पस्योपन्यासस्तु सारकारोक्तश्चिन्त्य एवेति ॥ ४५ ॥ (१) भेदेनेति । उनपदार्थस्य प्रतियोगित्वसम्बन्धेन सह. शपदार्थैकदेशसादृश्ये सदृशस्य चस्वनिष्ठ सादृश्यानुयोगित्वसम्बन्धेनेति बोध्यम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy